अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 112, कुल 262 में से
संदर्भ में पढ़ें98 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
नटी- (गायति)
खणचुम्बिआइँ भमरेहिँ उअह सुउमारकेसरसिहाइँ।
अवअंसअन्ति सदअं सिरीसकुसुमाइँ पमआओ।। 1-4।।
(क्षणचुम्बितानि भ्रमरैः ऊहत सुकुमारकेसरशिखानि।
अवतंसयन्ति सदयं शिरीषकुसुमानि प्रमदाः।।)
ना(नायिके)त्युत्कण्ठातिशयाय$^{13}$। नाटकेति। तल्लक्षणञ्च-
नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम्। पञ्चाधिका दशपरास्तत्राङ्काः परिकीर्तिताः।।
प्रख्यातवंशो राजर्षिर्धीरोदात्तः प्रतापवान्। दिव्योऽथ दिव्यादिव्यो वा गुणवान् नायको मतः।।
एक एव भवेद्ङ्गी शृङ्गारो वीर एव वा। अङ्गमन्ये रसाः सर्वे कार्यो निर्वहणेऽद्भुतः।।
इदञ्च रूपकम्। तदुक्तम्- “नाटकम् अथ प्रकरणं भाण-व्यायोग-समरकाव-(समवकार)-डिमाः। ईहामृगाङ्क-वीथ्यः प्रहसनमिति रूपकाणि दशेति”। अपि च, विष्कम्भकादावपि नो बोधो वाच्यविकारिणः। न चातिरसो वस्तु दुरं विच्छिन्नतां नयेत्। रसं वा न तिरोदध्याद्द्रस्तु अलङ्कारलक्षणैः। घटितं त्रिंशल्लक्षणान्यत्र नाट्यालङ्कृतयस्तथा। त्रयस्त्रिंशत् प्रयोज्यानि वीथ्यङ्गानि त्रयोदश।।
सन्धयश्च [मु]ख$^{14}$-प्रतिमुख-गर्भ-विमर्श-निर्वहणाख्याः। तदङ्गानि चोपक्षेप्यादीनि प्रकारेभ्योऽवसेयानि। एतानि च यथास्थानं किञ्चिदेव वक्ष्यन्ते, विस्तरभयादिति।। आधीयताम् आरोप्यतां यथा कोऽपि स्वर-तालादि-भङ्गो न स्यादिति भावः। स्वविहित-प्रयोगतयाऽभ्यस्तनृत्यतया परिहास्यते। परिहीणं भविष्यति।। सस्मितमिति। सङ्गीतप्राविण्याभिधानात् नटीकृतप्रशंसा जातईर्ष्यादिति शङ्करः। स्मिताख्यहसितश्रोतमानाम्। तल्लक्षणञ्च-ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः। अदृष्ट-दन्तमुकुलैरुतमानां स्मितं भवेत्।।
भूतार्थं सत्यम्।
आपरे०। (1-2) प्रयोगविज्ञानं नृत्यकौशलं बलवत् सुष्ठु की(कि)मुत अत्यतीव च निर्भरे इत्यमरः। शिक्षितानाम् अभ्यस्तविद्यानाम्, अर्थान्तरन्यासः। एवमेतत् अनन्तरकरणीयम् अव्यवधानकर्तव्यम् इदानीम् आज्ञापयत्वार्यः। उत्तरीयानि सरोजेष्विति प्राकृतसूत्रम्। करणिज्जं करणीयमिति द्वयमेव साधु। दानि-शब्द इदानीमर्थे।। ऋतुञ्च कञ्चित्, प्रायेण भारतीं वृत्तिमाश्रित इति नियमाद् आह। कदरमिति कतरम्। पुनर्रृतुम् समाश्रित्य गास्यामि। ननु-शब्दोऽत्रानुज्ञायाम्। ननु-प्रश्नेऽप्यनुनयेऽनुज्ञायामपीति मेदिनी। सम्प्रति हीति, हि-पादपूरणे हेतौ तथा प्रश्नेऽवधारणे इति कोषः।
सुभग०।। (1-3) सुभगं रम्यं, “पाटलैः” पुष्पभेदः। प्रकृष्ट्याच्छाया आतपाभावो यत्र देशे स प्रच्छायः। प्रच्छया प्रच्छायम्। विभाषा सेने (पा. सू. 2-4-25)त्यादिना क्लीबैकत्वमिति शङ्करः, तच्चिन्त्यम्। जात्यलङ्कारः।।
खण०।। (1-4) क्षणचुम्बितानि भ्रमरैः, उअ अपश्यते(दि)त्यर्थः। उअअ (ऊहत)$^{15}$
- नायिकोत्कण्ठाः तिशयाय इति मातृका 4118 इत्यत्र पठ्यते।
- अस्य स्थाने “सन्धयश्च रथ खप्रतिमुख०” इति 4117 इत्यत्र पठ्यते।
- मिथिलातः प्रकाशिते शङ्कर-नरहरीटकाद्वयसहितेनाभिज्ञानशाकुन्तले तु “ऊहत” इति लिखितं वर्तते।