भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 111, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 111

अभिज्ञानशकुन्तलम् प्रथमोऽङ्कः 97

आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्।
बलवदपि शिक्षितानाम् आत्मन्यप्रत्ययं चेतः।।1-2।।

नटी- एवं णेदं। अणन्तरकरणीयं दाणिं आणवेदु अज्जो। (एवं नु एतत्। अनन्तरकरणीयम् इदानीम् आज्ञापयतु आर्यः।)

सूत्रधारः- आर्ये, किमन्यदस्याः परिषदः श्रुतिप्रसादहेतोर्गीतादनन्तरकरणीयमस्ति।

नटी- अध कदरं उण उदुं समस्सइअ गाइस्सं। (अथ कतरम् पुनः ऋतुम् समाश्रित्य गास्यामि।)

सूत्रधारः- आर्ये, नन्विममेव तावन्नातिचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमाश्रित्य गीयताम्। सम्प्रति हि-

सुभगसलिलावगाहाः पाटलीसंसर्गसुरभिवनवाताः।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः।।1-3।।


युक्तं पदानीति। तदुक्तं रङ्गद्वारमारभ्य कविः कुर्यादिति। तेन नान्द्यन्ते सूत्रधार इदं प्रयोजितवान्। इतः प्रभृति मया नाटकमुपादीयते इति कवेरभिप्रायः। अत एव प्राचीनग्रन्थे विक्रमोर्वश्यां नान्द्यन्त इत्यनन्तरमेव “वेदान्तेषु यमाहुरि” त्यादि पद्यं दृश्यत इत्यर्थः।।

अलमिति। अलं निष्फलम्। तदुक्तं निष्फलपर्यायैर्भर्तृ(?)हरिमिश्रैः। भवति हि तृतीयान्तेन समर्थितमिति। आवश्यके नान्दीकृता अनावश्यकैः प्रत्यहोरात्रादि प्रपञ्चैः फलाभावैः सदस्यवैरस्यादिति भावः। तदुक्तं-

“यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके।
तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये।”

पूर्वरङ्गस्तु नाट्यवस्तुनः पूर्वरङ्गविघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते।। नेपथ्यं भूषणस्थानम् इति कोषः। रङ्गाद् बहिस्तु नेपथ्यमिति मुनिः।।

आर्ये इति नाट्ये नटी-सूत्रधारावार्य्य नाम्ना परस्परमिति भरतः। नेपथ्यवेशः। आकल्पवेषो नेपथ्यम् इत्यमरः। अध्यवसितं निर्व्यूढम्। पाठान्तरे-नेपथ्ये यद् विधीयते तन्नेपथ्यविधानं नृत्यम्। अध्यवसितमिष्टम्। आर्य इयम् अस्मि। आज्ञापयत्वार्य्यः, को नियोगोऽनुष्ठीयतामिति। रसभावदीक्षागुरोः^{10} श्रीसाहसाङ्कस्या-ऽभिरूपभूयिष्ठा परिषदिति क्वचित् पाठः^{11}। अभिरूपः पण्डितः। वस्त्वितिवृत्तं शकुन्तलादुःषन्त^{12} सम्बन्धिरूपम् अभिज्ञायते स्मर्य्यतेऽनेनेत्यैभिज्ञानचिह्नाङ्गुरीयकम्, तेन स्मृता शकुन्तला, अभिज्ञानशकुन्तला। शाकपार्थिवादिः। तामधिकृत्य कृतो ग्रन्थ इत्यर्थेऽपनायकार्य्यं नाटकस्य गृह्यता(गृहीता)र्थप्रकाशनमिति भरतः।।


  1. रसभावदीक्षादीक्षागुरोः इति 4118 अत्र दृश्यते। रङ्गभावः दीक्षा दीक्षागुरोः इति मातृका 4117 इत्यत्र पठ्यते।
  2. मैथिली पाठपरम्परायां “रसभावविशेषदीक्षागुरोः श्रीविक्रमादित्यस्य साहसाङ्कस्याभिरूपभूयिष्ठा परिषत्। “इति वाक्यमुपलभ्यते। उत्कलीय पाठपरम्परायां “श्रीविक्रमादित्यस्य” इत्याधिकं प्राप्यते।
  3. शकुन्तलाम्बः सन्त इति मातृका 4117 इत्यत्र पठ्यते।