अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 110, कुल 262 में से
संदर्भ में पढ़ें96 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
सूत्रधारः- आर्ये, अभिरूपभूयिष्ठा परिषत्। तस्यां च श्रीकालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुन्तलनाम्ना नाटकेनोपस्थातव्यमस्माभिः। तत्प्रतिपात्रमाधीयतां यत्नः।
नटी- सुविहिदप्पओअदाए अज्जस्स ण किं पि परिहाइस्सादि।
(सुविहितप्रयोगतया आर्यस्य न किमपि परिहास्यते।)
सूत्रधारः- (सस्मितम्) आर्ये, कथयामि ते भूतार्थम्।
गुणः शब्दो यस्याः सा तथा⁶। साऽऽकाशरूपा।। यां तनुं सर्व्वेषां बीजानां व्रीह्यादीनां प्रकृतिरुत्पत्तिस्थानम् इति कृत्वा आहुः। पुराविदः पण्डिताः वदन्तीत्यर्थः। सा पृथिवीरूपा।। निदाने प्रकृतिः स्त्रियामिति व्याडिः। यया मूर्त्या प्राणिनो मनुष्यादयः प्राणवन्तः, सा वायुरूपा।। प्राणोपान इत्यमरः। तनुभिः कीदृशीभिः? प्रत्यक्षाभिः। योग्ययोगीन्द्र-ज्ञानग्राह्याभिरित्यर्थः। ईशः कीदृशः? प्रसन्नः सन्तुष्टः।।
नान्द्यन्त इति। नान्दीलक्षणञ्च आशीर्यरथ नमस्क्रिया तु शशिनः सङ्कीर्तनं, वस्तुनो निर्देशो गुरुसंस्तुतिर्मधुलिहां मोदाय पुष्पाञ्जलिः। उच्चैः द्वादशभिः पदैरथ समैर्याष्टभिस्तूर्य्यकैः सद्वृत्तेन सुगन्धिना च कथिता नान्दीति सर्व्वागमे इति त्रिलोचनमिश्रादयः। नान्दीं पदैर्द्वा(र्द्वा)दशभिरष्ट्याभिः संस्कृताम्, तां षोडशपदम् एके, केचिदाहुश्चतुष्पदाम्(म्)। सुप्-तिङन्तं पदं, श्लोकतुर्य्यांशश्चेति पक्षयोः(पादयोः)।। “न मुनेः स्वरसः, किं तु गतानुगतिकादरः” इति वामदेवादयः। अन्ये तु पत्रावली⁷ माङ्गलिनो तथा सा नमस्कृतिश्चेति वदन्ति नान्दीम्। शो(श्लो)कस्य पादैरथ सुप्तिङन्तैः कार्य्याऽष्टभिर्द्वादशभिः पदैः स्वेति(श्चेति) नान्द्याश्चातुर्विध्यमाहुः।। तदियं नान्दी। एतदन्ते सूत्रधारो वदति, नान्दीं पठित्वाऽन्यद् वदतीति वाक्यार्थः। तल्लक्षणञ्च नर्तनीय-कथासूत्रं प्रथमं येन सूच्यते। रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते⁸। सूत्रधारः पठेन्नान्दीं प्रथमं स्वरमाश्रित इति नयेन नान्द्यन्ते सूत्रधारप्रवेशोऽपास्त इति प्राज्ञः। केचित्तु सूत्रधारः पठेद् एनाम् अन्यो वा रङ्गभूमिग इति पठन्ति। तन्मते स्वर्गादौ(रूपकादौ?) सूत्रधारपदेन लक्ष्णया स्थापकनामपात्रमुक्तम्। तेन नान्द्यन्ते सूत्रधारः स्थापकः प्रविशतीत्यर्थः। काव्यार्थस्थापनात् स्थापकं(कः)। तदुक्तम्-
“रङ्गपूजां विधायादौ सूत्रधारे विनिर्गते।
स्थापकः प्रविशेत् तत्र सूत्रधारगुणाकृतिः॥”
इति। त्रिलोचनमिश्रैस्तु(?) सूत्रधार इति क्रियापदमुक्तम्। सूत्रं भूमिकां धारयतीति⁹ सूत्रधारः स्थापक इत्यर्थः। अन्यस्त्वाहुः नान्दी नान्दीपाठकः अन्ते शेषे इदं प्रयोजितवान्। तदुक्तं भरतेन “अथ पात्राणि तत्रादौ नान्दी। नान्दीस्तु यः पठेद्” इति। चतुर्भुजमिश्रास्तु नान्द्यन्त इत्यस्यायमर्थः। इयं नान्दी, नान्दीति ज्ञातव्यम् अन्ते सूत्रधार प्रविशतीत्याहुः। नव्यास्तु नेयं नान्दी, किन्तु पूर्वरङ्गस्य रङ्गत्वयामाख्या(?) रङ्गमिदम्। तदुक्तं यस्मादभिनयो ह्यत्र प्राथमिक्यादेवतार्थयते। रङ्गत्यावमतो ज्ञेयं वागङ्गाभिनयात्मकमिति नान्द्यास्तु रङ्गद्वारात् प्राङ् नित्यमिति कर्तव्यतया न मुनिना निर्देशः कृतः। “वेदान्तेषु यमाहुरित्यादौ नान्दी लक्षणाद्योगात्। नान्दी-लक्षणन्तु द्वादशाष्टपदपरिच्छिन्नाऽऽशीरादिषु
- मातृका 4117 इत्यत्र “ग(गो) चराचरागुणः शब्दो यस्याज्ञ(श्च) सा तथा” इति पठ्यते।
- मातृका 4117 इत्यत्र “त पात्रावलिनी”, तन्न समीचीनम्।
- शिवानन्दकरी नान्दी, नान्दी विघ्नोपशान्तये इति 4117 इत्यात्राधिकं काकपदेन फलकाद् बहिर्लिखितम्।
- शब्दोऽयं 4117 इत्यत्र मातृकायां नास्ति।