अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 159, कुल 262 में से
संदर्भ में पढ़ेंअभिज्ञानशकुन्तलम् तृतीयोऽङ्कः 145
प्रियंवदा- (जनान्तिकम्) अणुसूए, पेक्ख पेक्ख, मेहवादाहदं विअ गिम्हे मोरिं खणे खणे पच्चाअदजीविदं पिअसहिं। (अनसूये, प्रेक्षस्व प्रेक्षस्व मेघवाताहतामिव ग्रीष्मे मयूरीं क्षणे क्षणे प्रत्यागतजीवितां प्रियसखीम्।)
शकुन्तला- हला, मरिसावेध लोअवालं जं अम्हेहिं बीसद्धपलाविणीहिं उवआरादिक्कमेण भणिदं। (सख्यौ, मर्षयतं लोकपालं यदस्माभिः विस्रब्धप्रलापिनीभिः उपचारातिक्रमेण भणितम्।)
सख्यौ- (सस्मितम्) जेण तं मन्तिदं सो ज्जेव मरिसावेदु। अणस्स को अच्चओ। (येन तत् मन्त्रितं सः एव मर्षयतु। अन्यस्य कः अत्ययः।)
शकुन्तला- अरिहदि क्खु महाराओ इमं पच्चक्खवअणं विसोढुं। परोक्खं वा किं ण मन्तीअदि। (अर्हति खलु महाराजः इदं प्रत्यक्षवचनं विषोढुं परोक्षं वा किं न मन्यते।)
राजा- (सस्मितम्) अपराधमिमं ततः सहिष्ये यदि रम्भोरु तवाङ्गसङ्गसृष्टे। कुसुमास्तरणे क्लमापहं मे सुजनत्वादनुमन्यसेऽवकाशम्॥३-२४॥
प्रियंवदा- ण एत्तिकेण उण तुट्टी भविस्सदि। (नैतावता तुष्टिः भविष्यति।)
शकुन्तला- (सरोषमिव) विरम दुल्ललिदे। एदावत्थं गदाए वि मए कीळसि। (विरम दुर्ललिते। एतदवस्थां गतयापि मया क्रीडसि।)
अनुसूया- (बहिर्विलोक्य) पिअंवदे, एसो तवस्सिमिअपोदओ इदो तदो दिण्णदिट्ठी णूणं मादरं पब्भट्ठं अणुसरेदि। ता संजोएमि दाव णं। (प्रियंवदे, एषः तपस्विमृगपोतकः इतस्ततो दत्तदृष्टिः नूनं मातरं प्रभ्रष्टमनुसरति। तत्संयोजयामि तावदेनम्।)
कुव्याख्या तूपेक्षिता³⁶। अनुनयोऽलङ्कारः। वचसा कर्मणा प्रीतिर्यस्मिन्ननुनयो हि स इति शङ्करः। निर्वृते स्वः। अनसूये, प्रेक्षस्व प्रेक्षस्व मेघवाताहतामिव ग्रीष्मे मयूरीं क्षणे क्षणे प्रत्यागत-जीवितां प्रियसखीम्। सखि, मर्षयतं लोकपालं यद् अस्माभिर्विश्रब्धप्रलापिनीभिरुपचारातिक्रमेण भणितम्। अतिक्रमो भणितो वा। येन तन्मन्त्रितं, स एव मर्षयतु। अन्यस्य कोऽत्ययो भयम्। अर्हति खलु महाराज इदं प्रत्यक्षं वचनं विषोढुम्। परोक्षवचनमिति शङ्करः। परोक्षं वा न मन्यते।
अपरा० ।। (३-२४) कुसुमेति पुष्पशय्यायां स्वजनत्वादात्मीयत्वादवकाशं स्थानम्। नैतावन्मात्रेण तुष्टि-र्भविष्यति। एतेनैव तुष्ट्ये भविष्यतीति वा पाठः।।
विरम दुर्ललिते एतावदवस्थां गतयापि मया क्रीडसि। विदिताभिप्राया च। अथ च परिहाससमयोऽयं न भवति। यथा जीवामि तथैव कर्तुमुचितमिति भावः।।
विजनत्वं चिकीर्षुरनुसूया सव्याजमाह।
- शङ्करेण स्वटीकायां समुद्दरशना इति शब्दस्य या व्याख्या विहिता सा नोचिता, न च ग्राह्येति चन्द्रशेखरस्याभिमतम्।