अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 190, कुल 262 में से
संदर्भ में पढ़ें176 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
यत्सत्यं शङ्कित इवास्मीदानीमेव धर्मासनादुत्थिताय देवाय कण्वशिष्यागमनं निवेदयितुम्। अथवा कुतो वा विश्रामो लोकपालानाम्। तथा हि-
भानुः सकृद्युक्ततुरङ्ग एव
रात्रिंदिवं गन्धवहः प्रयाति।
शेषः सदैवाहितभूमिभारः
षष्ठांशवृत्तेरपि धर्म एषः॥५-४॥
(इति परिक्रामति)
(ततः प्रविशति राजा विदूषको विभवतश्च परिवारः।)
राजा-(अधिकारखेदं निरूप्य) सर्वः प्रार्थितमधिगम्य सुखी सम्पद्यते, राज्ञां तु चरितार्थतापि दुःखोत्तरैव। कुतः-
औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव।
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम्॥५-५॥
(नेपथ्ये)
वैतालिकौ-जयति जयति देवः।
एकः-
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः, प्रतिदिनमथ वा ते सृष्टिरेवंविधैव।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं, शमयति परितापं छायया संश्रितानाम्॥५-६॥
दर्पणकारेण तु नवीकृते[ति] पाठान्तरेण पद्यमिदमुदाहृतम्। यथा भानुः सदा युक्ततुरङ्ग एव रात्रिन्दिवेति तुल्यम्। बिभर्ति।। शेषः सततं धरित्रीमित्यन्यतुल्यम्। विभवतो वैभवानुरूपं, परिवारः परिजनः। प्रत्येकं चामरादिवाहिनां कथने गौरवं स्यादिति तत् समाधानमिदम्। चरितार्थता कृतार्थता। दुःखोत्तरा दुःखप्रधाना।
औत्सुक्य०।। (5-5) औत्सुक्यम् उत्कण्ठा, कदा राजा भविष्यामीत्यादि, तामेव दुःखदायिनीं प्रतिष्ठांम् अवसादयति। लब्धपालनवृत्तिस्तु पीडयत्येव अर्थान्नृपम्। एव-शब्दो भिन्नक्रमे। एवमित्यनुभूयमान-प्रकारेणेति शङ्कर-दुर्बोधः। राज्यं कर्तुं उत्कण्ठामात्रं नाशयति प्रतिष्ठां प्रागवस्थितां ख्यातिं क्लिश्नातीत्यन्ये। राज्यमुत्कण्ठामात्रं ख्यातिं नाशयतीति तु शङ्करस्य तु कुव्याख्यानम्।। वैतालिका लक्षणया बन्दिनः।।
जाने तत्रभवती हंसवती दुःस्व(ष)न्तभार्या, वर्णपरिचयं करोति। गीतिषु चत्वारो वर्णा भवन्ति। यदाह भरतः-
स्थायी तथैव सञ्चारी, तथारोहावरोहिणौ। वर्णाश्चत्वार एवैते कथिताः सर्वगीतिषु।।
तेषां परिचयमभ्यासं वर्णनिश्चयम्। सुरजातिनिश्चयमित्यन्यः पठति।।