अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 212, कुल 262 में से
संदर्भ में पढ़ें198 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
अरिहसि मे चूअङ्कुर दिण्णो कामस्स गहिअचावस्स।
सच्चविअजुअइलक्खो पञ्चब्भहिओ सरो होउं।।६-३।।
(अर्हसि मे चूताङ्कुरदत्तः कामस्य गृहीतचापस्य।
सत्याकृतयुवतिलक्षः पञ्चाभ्यधिकः शरः भवितुम्)॥६-३॥
(इति चूताङ्कुरं क्षिपति)
प्रविश्य कञ्चुकी-(सक्रोधम्) मा तावदनात्मज्ञे, देवेनैवं निषिद्धेऽपि मधूत्सवे चूतकलिका-भङ्गमारेभे।
उभे- (भीते) पसीददु पसीददु अज्जो। अगदित्थाओ अम्हे। (प्रसीदतु प्रसीदतु आर्यः। अगृहीतार्थे आवाम्।)
कञ्चुकी-हुम्। न खलु श्रुतं भवतीभ्यां तावद्वसन्तैस्तरुभिरपि प्रमाणीकृतं देवस्य शासनं तदाश्रयिभिश्च।
तथा हि-
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
संनद्धं यदपि स्थितं कुरुबकं तत्कोरकावस्थया।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणीर्धकृष्टं शरम्॥६-४॥
तन्मयापि वाचनफलस्य। सखि, अभणितमपीदं सम्पद्यत इति यत एकमेवेदम् आवयोः शरीरं द्विधा विभक्तं प्रजापतिना। अम्महे विस्मये।
यः प्रबुद्धोऽपि चूतप्रसवो बन्धनभङ्गे सुरभिरेष वाति सुगन्धीभवति। कपो[तो] हस्त(स्त)भेदः। तदुक्तम् भरतेन सर्व्वपाश्र्वसमाश्लेषात् कपोतः सर्व्वशीर्षकः। भीतो विज्ञानो भव विनये च प्रयुज्यते इति।। नमो भगवते मकरध्वजाय।
अरिह०।।(6-3)।।
अर्हसि मे चूताङ्कुरदत्तः कामस्य गृहीतचापस्य।
सत्याकृत युवतिलक्षः पञ्चाधिकः शरो भवितुम्।।
हे चूताङ्कुर! मया दत्तः त्वमर्थात् कामस्य षष्ठः शरो भवितुमर्हसि, सत्याकृतं निश्चितं युवतिरेव लक्षं(क्ष्यं) येन। संस्थापित युवतिरिति शाङ्करः पाठः। “आसीनपाठ्य” नामिकं लास्यमिदम्। यदाह भरतः।
द्रुतकरचरणविलासाभिनयैर्युक्तं प्रयुज्यते यच्च। आसीनया वनितया भवति तदासीनपाठ्यं त्विति।। देवेन राज्ञा। प्रसीदतु प्रसीदत्वार्य्यः। अगृहीतार्थे आवाम्, हूं क्रोधे।
चूता०।।(6-4)।। सन्नद्धं पुष्पितमुद्यतं तदपि कलिकावस्थया स्थितं, न विकासितमित्यर्थः। कुरबकं सोनाम्लानपुष्पं, अपिरेवार्थे स्खलितां न बहिर्भूतामित्यर्थः। चकितो भीतः धातुसन्धिचूर्णनेऽयम्। नास्त्यत्र सन्देहः। महाप्रभावः खल्वेष राजर्षिः।