अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 211, कुल 262 में से
संदर्भ में पढ़ेंअभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 197
(ततःप्रविशति चूताङ्कुरमवलोकयन्ती चेटी तस्याश्च पृष्ठतोऽपरा)
प्रथमा-
आअम्बहरिअवेण्टं ऊससिअं विअ वसन्तमासस्स।
दिट्ठं चूअङ्कुरअं छणमङ्गलअं णिअच्छामि॥6-2॥
(आताम्रहरितवृन्तम् उच्छ्वसितमिव वसन्तमासस्य।
दृष्टं चूताङ्कुरं क्षणमङ्गलं पश्यामि॥)॥6-2॥
द्वितीया-परहुदिए। किं एदं एक्काइणी मन्तेसि। (परभृतिके, किमेतत् एकाकिनी मन्त्रयसे)
प्रथमा-सहि महुरिए। चूदलदिअं पेक्खिअ उम्मत्तिआ खु परहुदिआ भोदि। (सखि मधुरिके, चूतलतिकाम् प्रेक्ष्य उन्मत्ता खलु परभृतिका भवति।)
द्वितीया-(सहर्षम्) कथं उवत्थिदो महुमासो। (कथमुपस्थितः मधुमासः।)
प्रथमा-महुरिए, तुहावि दाणिं एस कालो मदविब्भमुग्गीदाणं। (मधुरिके, तवापि इदानीमेषः कालः मदविभ्रमोद्गीतानाम्।)
द्वितीया-सहि, अवलम्बसु मं जाव अग्गपदे परिट्ठिदा भविअ इमिणा पसवेण सम्पादेमि कामदेवस्स वाअणं। (सखि, अवलम्बस्व मां यावदग्रपदोपरि स्थिता भूत्वा अनेन प्रसवेन सम्पादयामि कामदेवस्य वाचनम्।)
प्रथमा-जइ एवं ता ममावि अद्धं वाअणफलस्स। (यद्येवं तत् ममाप्यर्धं वाचनफलस्य।)
द्वितीया-सहि, अभणिदे वि एवं संपज्जदि ज्जेव जदो एक्कं जेव णो एदं सरीरं। (सख्याम् अवलम्बनं कृत्वा नाटयेन चूतप्रसवं गृहीत्वा) अम्महे। अप्पबुद्धो वि चूदप्पसवो बन्धणभङ्गसुरही एस वाअदि। (कपोतहस्तं कृत्वा) णमो भवदो मअरद्धअस्स। (सखि, अभणितेऽप्येवं संपद्यते एव यतः एकमेव नौ एतत् शरीरम्। अम्महे। अप्रबुद्धोऽपि चूतप्रसवः बन्धनभङ्गसुरभिः एषः वाति। नमः भगवते मकरध्वजाय।)
आता०॥ (6-2) आताम्रहरितवृन्तं उच्छ्वसितमिव वसन्तमासस्य दृष्टश्चूताङ्कुरः क्षणमङ्गलं पश्यामि। जीवोच्छ्वसितमिति केचित्। तदा जीवः प्राणास्तेषाम् उच्छ्वसित उद्यमः चूताङ्कुरो दृष्टस्ततोऽस्य मङ्गलमपि भविष्यतीति भावः। नियच्छामीति दृशैः पुनरागच्छामि। अच्छा इति प्राकृतसूत्रात्, दृश-धातोर्निअच्छादेशः।
शङ्करस्तु वाह्नो(?) क्षणमङ्गलं नियच्छामीति पठित्वा, नियच्छामि ददामी(नी)त्याह। तद्विचार्थ्यम्॥ परभृतिके, किमिदमेकाकिनी मन्त्रयसे। सखि मधुरिके, चूतकलिकां चूताङ्कुरं वा प्रेक्ष्य उन्मत्तिका खलु परभृतिका भवति। कथमुपस्थितो मधुमासः॥
मधुरिके, तवाप्येष कालो मदविभ्रमोद्गीतानाम्। सखि, अवलम्बस्व मां यावदर्थपदोपरि स्थिता भूत्वा एतेन प्रसवेन सम्पादयामि। कामदेवस्य वाचनं, नैवेद्यम् अर्चनम् इत्यन्यः। यद्येवं