भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 210, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 210

196 \hfill चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

धीवरकः-भस्टका, इदो अद्धं तुम्हाणं पि शुलामुल्लं भोदु। (भर्तारौ, इतः अर्धं युष्माकमपि सुरामूल्यं भवतु।)

जानुकः-धीवल, महत्तले शंपदं मे पिअवअशके शंकुत्ते शि। कादम्बलीशद्धिके क्खु पढमं अस्माणं शोहिदे इश्रीअदि। ता शुण्डकागालं येव गश्शस्म। (धीवर, महत्तरं साम्प्रतं मे प्रियवयस्यः संवृत्तोऽसि। कादम्बरीसगन्धिके खलु प्रथममस्माकं सौहित्यम् इष्यते। तत् शौण्डिकागारमेव गच्छामः।)

(इति निष्क्रान्ताः सर्वे)

(प्रवेशकः)

(ततः प्रविशत्याकाशयानेन मिश्रकेशी)

मिश्रकेशी-णिव्वत्तिदं मए पज्जाअणिव्वत्तणीअं अच्छरातिथ्थसंणिज्झं। ता जाव इमस्स राएसिणो वुत्तन्तं पच्चक्खीकरइस्सं। मेणआसंबन्धेण सरीरभूदा मे सउन्तला। ताए वि सन्दिष्टुम्हि। (समन्तादवलोक्य) किं णु क्खु उवत्थिदक्खणे वि दिअसे णिरुसवारम्भं विअ राअउलं दीसदि। अत्थि मे विहवो पणिधाणेण सव्वं जाणिदुं। किं तु सहीए आदरो मए माणइदव्वो। भोदु। इमाणं जेव उज्जाणवालिआणं पासपरिवत्तिणी भविअ तिरक्करिणीए पच्छण्णा उवलहिस्सं। (निर्वर्तितं मया पर्यायनिवर्तनीयम् अप्सरस्तीर्थसान्निध्यम्। तद्यावदस्य राजर्षेः वृत्तान्तं प्रत्यक्षीकरिष्यामि। मेनकासम्बन्धेन शरीरभूता मे शकुन्तला। तयापि सन्दिष्ट्यास्मि। किन्तु खल्वुपस्थितक्षणेऽपि दिवसे निरुत्सवारम्भमिव राजकुलं दृश्यते। अस्ति मे विभवः प्रणिधानेन सर्वं ज्ञातुम्। किं तु सख्याः आदरः मया मानयितव्यः। भवतु। आसाAction/मेव उद्यानपालिकानां पार्श्वपरिवर्तिनी भूत्वा तिरस्करिण्या प्रच्छन्ना उपलप्स्ये।)

(इति नाट्येनावतीर्य स्थिता)


भट्टार, इतोऽर्द्धं युष्माकमपि सूरामूल्यं भवतु। निःसादरादाह। धीवर-महत्तर साम्प्रतं प्रियवयस्यो मम संवृत्तोऽसि, कादम्बरीसन्धिकायां खलु प्रथममस्माकं सौहित्यमिष्यते।। सानुः स्त्रीमहतो जनं। सौहित्यं तर्पणं तृप्तिरिति चामरः। कादम्बरी स्वस्ति रे मदि[रा] भेदौ। “प्रथमशोभिते अस्माकमीप्सिते” इत्यन्यो विवृणोति। तच्छौण्डिकागारमेव गच्छामः।।

मिश्रकेशी अप्सरभेदः। निर्वर्तितः मया पर्यायनिवर्तनीयम् अप्सरस्तीर्थसान्निध्यं, तत्तावदेतस्य राजर्षेर्वृत्तान्तं प्रत्यक्षीकरिष्ये। मेनकासम्बन्धेन शरीरभूता मे शकुन्तला। तयापि सन्दिष्ट्यास्मि नृपचरितज्ञानार्थमित्यर्थः। किं नु खलूपस्थितक्षणेऽपि दिवसे निरुत्सवारम्भमिव राजकुलं दृश्यते क्षणतत्परः। अस्ति मे विभवः प्रणिधानेन ज्ञातुं, किन्तु सख्या आदरो मया मानयितव्यः। प्रत्यक्षतो ज्ञानमेव तयोक्तमिति भावः। भवत्वासामेवोद्यानपालिकानां पार्श्व(श्वं)परिवर्तनी भूत्वा तिरस्करिण्या प्रच्छन्ना उपलप्स्ये। तिरस्करिणी प्रच्छादिका विद्या।। अये उपस्थितो मधुमासः।।