अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 209, कुल 262 में से
संदर्भ में पढ़ें| अभिज्ञानशकुन्तलम् | षष्ठोऽङ्कः | 195 |
|---|
(यथा आज्ञापयति ईश्वरः। यमवसतिं गत्वा प्रतिनिवृत्तः खल्वेषः।)
(इति धीवरं बन्धनान्मोचयति)
धीवरकः- (नागरकं प्रणम्य) भस्टके, तव केलके मम यीविदे। (भर्तः, त्वदीयं मम जीवितम्।)
(इति पादयोः पतति।)
नागरकः- उत्थेहि उत्थेहि, एसो भट्टिणा अङ्गुलीअअमुल्लसंमिदो पारिदोसिओ दे पसादीकिदो। ता गेण्ह एदं। (उत्तिष्ठ उत्तिष्ठ, एतद्भर्त्रा अङ्गुरीयकमूल्यसंमितं पारितोषिकं ते प्रसादीकृतम्। तत् गृहाण एतत्।) (इति धीवराय कटकं प्रयच्छति)
धीवरकः- (सहर्षं प्रतिगृह्य) अणुग्गहिदे स्मि। (अनुगृहीतोऽस्मि।)
जानुकः- एशे क्खु लञ्जा तथा णाम अणुग्गहिदे यं शूलादो ओदालिअ हस्तिस्कन्धं शमालोविदे। (एषः खलु राज्ञा तथा नाम अनुगृहीतः यत् शूलादवतार्य हस्तिस्कन्धं समारोपितः।)
सूचकः- लाउत्त्ते, पालिदोशिए कधेदि महालिहलदणेण तेण अङ्गुलीअएण शामिणो बहुमदेण होदव्वं त्ति। (ईश्वर, पारितोषिकं कथयति महार्हरत्नेन तेन अङ्गुरीयकेन स्वामिनः बहुमतेन भवितव्यमिति।)
नागरकः- णं तरिस्सं भट्टिणो महारिहरदणं ति ण परिदोसो। एत्तिकं उण। (ननु तस्मिन् भर्तुः महार्हरत्नमिति न परितोषः। एतावत् पुनः।)
उभौ- किं णाम। (किं नाम।)
नागरकः- तक्केमि तस्स दंसणेण को वि हिअअट्ठिदो जणो भट्टिणा सुमरिदो त्ति जदो तं पेक्खिअ मुहुत्तअं पइडिगम्भीरो वि पज्जुस्सुओमणो आसि। (तर्कयामि तस्य दर्शनेन कोऽपि हृदयस्थितः जनः भर्त्रा स्मृतः इति, यतः तत् प्रेक्ष्य मुहूर्तकं प्रकृतिगम्भीरोऽपि पर्युत्सुकमनाआसीत्।)
सूचकः- तोशिदे दाणिं भस्टा लाउत्तेण। (तोषितः इदानीं भर्ता ईश्वरेणः।)
जानुकः- णं भणामि इमश्श मश्श्लीशत्तुणो किदे त्ति। (ननु भणाम्यस्य मत्स्यशत्रोः कृते इति।) (इति धीवरमसूयया पश्यति)
उत्तिष्ठ, एष भर्त्राङ्गुरीयक-मूल्य-सम्मितस्तुलितः पारितोषिकस्ते प्रसादीकृतस्तद् गृहाणैतत्। अनुगृहीतोऽस्मि। एष खलु राज्ञा तथानुगृहीतः यच्छूलादवतार्य हस्तिस्कन्धं समारोपितः। ईश्वरः-पारितोषिकः कथयति महार्हरत्नेन तेनाङ्गुरीयकेन स्वामिनो बहुमतेन भवितव्यमिति। ननु तस्मिन् भर्तुर्महार्हरत्नमिति न परितोषितः। एतावत् पुनस्तर्कयामि तस्य दर्शनेन कोऽपि हृदयेन्तो(यस्थो) जनो भर्त्रा स्मृत इति।
यथा मुहूर्तं प्रकृतिगम्भीरोऽपि पर्युत्सुकमना आसीत्।। तोषित इदानीं भर्त्रा ईश्वरेण। ननु भणाम्यस्य मत्स्यशत्रोः कृते। एतत् प्रयोजनार्थमेव भर्त्रा राजसन्तोषः कृत इति भावः।