अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 208, कुल 262 में से
संदर्भ में पढ़ें194 | चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
नागरकः—सूअअ, इध गोउरदुआरे अप्पमत्ता पडिवालेध मं जाव राउलं पविसिअ णिक्कमामि। (सूचक, इह गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं मां, यावद् राजकुलं प्रविश्य निष्क्रामामि।)
उभौ—पविसदु लाउत्ते शामिप्पशादस्तं। (प्रविशतु ईश्वरः स्वामिप्रसादार्थम्।)
नागरकः—तधा। (तथा) (इति निष्क्रान्तः)
सूचकः—याणुअ, चिलाअदि लाउत्ते। (जानुक, चिरायति ईश्वरः।)
जानुकः—णं अवशलोवशप्पणीआ खु लाआणो होन्ति। (ननु अवसरोपसर्पणीयाः खलु राजानः भवन्ति।)
सूचकः—याणुअ, स्फुलन्ति मे अग्गहस्ता। (धीवरं निर्दिश्य) इमं गण्ठिश्रेदअं वावादेदुं। (जानुक, स्फुरन्ति मे अग्रहस्ताः। इमं ग्रन्थिच्छेदकं व्यापादयितुम्।)
धीवरकः—णालिहदि भावे अकालणमालके भविदुं। (नार्हति भावः अकारणमारकः भवितुम्।)
जानुकः—(विलोक्य) एशे अस्माणं ईशले पत्ते गेण्हिअ लाअशाशणं। (धीवरं प्रति) ता शउलाणं मुहं पेस्कशि अथवा गिद्धशिआलाणं बली भविश्शशि। (एषः अस्माकम् ईश्वरः प्राप्तः गृहीत्वा राजशासनम्। तत् स्वकुलानां मुखं प्रेक्षसे अथवा गृध्रशृगालानां बलिः भविष्यसि।)
प्रविश्य नागरकः—सिग्धं सिग्धं एदं। (शीघ्रं शीघ्रं एतम्।) (इत्यर्धोक्ते)
धीवरकः—हा हदे स्मि। (हा हतोऽस्मि।) (इति विषादं नाटयति)
नागरकः—मुञ्चेध रे मुञ्चेध जालोवजीविणं। उववण्णो से किल अङ्गुलीअअस्स आगमो। अम्हसामिणा जेव मे कथिदं। (मुञ्चतं रे मुञ्चतम् जालोपजीविनम्। उपपन्नः अस्य किल अङ्गुरीयकस्यागमः। अस्मत्स्वामिना एव मे कथितम्।)
सूचकः—यधा आणवेदि लाउत्ते। यमवशदिं गदुअ पडिणिउत्ते क्खु एशे।
सूचक—इह गोपुरद्वारे अप्रमत्ताववहितौ परिपालये मां। यावद् राजकुलं प्रविश्य निष्क्रामामि। प्रविशन्त्वीश्वरः स्वामिप्रसादार्थम्। चिरयतीश्वरः। नन्ववसरोपसर्पणीया राजानो भवन्ति। जानुक, स्फुरति मेऽयं हस्तः, इमं ग्रन्थिच्छेदकं व्यापादयितुम्। नार्हति भावोऽकारणमारको भवितुम्। एषोऽस्माकमीश्वरः प्राप्तः गृहीत्वा राजशासनं। आज्ञां तत् कुल्यानां बान्धवानां शकु(न्त)लानां मत्स्यानामामुखं प्रेक्ष्य। अथवा शृगालगृध्रबलिर्भव बलिरूपद्वा(हा)रः।। शीघ्रं शीघ्रमेतम्। हा हतोऽस्मि। मुञ्चतं जालोपजीविनम्। उपपन्नः किलास्याङ्गुरीयकस्यागमः। अस्मत् स्वामिना यावदस्य कथितं अस्याङ्गुरीयस्य तत्वं कथितमित्यर्थः। यथाज्ञापयतीश्वरः। यमवसतिं गत्वा प्रतिनिवृत्तं वपुषः। भर्तुस्तव केल/रकं (भर्तस्तव क्रीतं) तदीयमित्यर्थः। साम्प्रतमस्माकजीवितम्। उव(प)क्रीतमिति तु शङ्करव्याख्या विचार्य्या।।