भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 207, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 207

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 193

धीवरकः-भस्टके, मा एवं भण। (भर्तः, मैवं भण।)
शहये किल ये वि णिन्दिदे ण हु शे कम्म विवय्यणीअके।
पशुमालिं कलेदि दालुणं अणुकम्पामिदुले वि शोणिके॥६-१॥
(सहजं किल यद्यपि निन्दितं न खलु तत् कर्म विवर्जनीयम्।
पशुमारणं करोति दारुणमनुकम्पामृदुलोऽपि सौनिकः)॥६-१॥
नागरकः-तदो तदो। (ततस्ततः।)
धीवरकः-अध एक्कदिअशं मए लोहिदमश्शके खण्डशो कप्पिदे। यावतश्श उदलब्भन्तले एदं महालदणभाशुलं अङ्गुलीअअं पेस्कामि। पश्शाइध विक्कअस्तं णं दंशअन्ते य्येव गहिदे भावमिश्रेहिं। एत्तिके दाव एदश्श आगमे। अधुणा मालेध वा कुस्टेध वा। (अथैकदिवसं मया रोहितमत्स्यः खण्डशः कल्पितः। यावत्तस्य उदराभ्यन्तरे एतत् महारत्नभासुरमङ्गुलीयकं प्रेक्षे। पश्चादिह विक्रयार्थमेतद्दर्शयन्नेव गृहीतः भावमिश्रैः। एषः तावदेतस्यागमः। अधुना मारयत वा कुट्टयत वा।)
नागरकः-(अङ्गुरीयकमाघ्राय) जाणुअ, मच्छोदरसंठिदं ति णत्थि संदेहो। तथा अअं से विस्सगन्धो। आगमो दाणिं एदस्स विमरिजिदव्वो। ता एध राउअलं जेव गच्छम्ह। (जानुक, मत्स्योदरसंस्थितमिति नास्ति सन्देहः। तथायमस्य विस्रगन्धः आगमः इदानीमेतस्य विमर्ष्टव्यः। तदितः राजकुलमेव गच्छामः।)
रक्षिणौ-(धीवरं प्रति) गश्च ले गण्ठिश्शेदआ गश्च। (गच्छ रे ग्रन्थिच्छेदक गच्छ।)
(इति परिक्रामन्ति)


सह०।। (6-1)
सहजं किल यदपि निन्दितं न खलु तत् कर्म विवर्जनीयम्।
पशुमारणं करोति कारणात् षट्कर्मा विदुरो श्रोत्रियः॥
सहजं कुलक्रमागतम्। हेतुमाह विदुरो विद्वान् पशुमारणं करोति कारणात्। महोक्षं वा महाजं वा श्रोत्रियेत्यादिः स्मृतिवचनात्। यज्ञादीति षट्कर्माणि त्रिभिः श्रोत्रिय इत्यादि। तथा च विरुद्धमेतत् परम्परायातं कुर्वतो नीचस्य मम न दूषणमिति भावः।। ततस्ततः। तत एकदिवसे मया रोहितमत्स्यः खण्डशः कल्पितः कृतो वा। यावत्तस्योदराभ्यन्तरे इदं महारत्नभास्वरम् अङ्गुरीयकं प्रेक्ष्ये। यावद् वाक्यालङ्कारे। पश्चादिह विक्रियार्थमिदं दर्शयन्नेव गृहीतो भावमिश्रैः, एतावानेवास्यागमः। अधुना मारयथ कर्तु(र्तं)यथ वा।।
जानुकेत्यपर रक्षकस्य नाम। जानुक! मत्स्योदरसंस्थितमिति नास्ति सन्देहः। यथास्य विस्रगन्ध आमिषगन्धो वेति आगम इदानीमेतस्य विलषि(मर्षि)तव्यः। मत्स्योदक(र)प्रवेशः कथमस्येति ज्ञातव्यमित्यर्थः। तद्राजकुलमेव गच्छामः। तत्रैव वृत्तान्तमिदं ज्ञास्याम इति भावः।
आगच्छ रे ग्रन्थिच्छेदक आगच्छ। आगच्छ रे ग्रन्थिच्छेदक आगच्छ।

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित) · पृष्ठ 207, कुल 262 में से · BharatKosha