भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 206, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 206

॥ षष्ठोऽङ्कः ॥

(ततः प्रविशति नागरकः पश्चाद्बाहुबन्धं पुरुषमादाय रक्षणौ च)

रक्षणौ—(पुरुषं ताडयित्वा) हण्डे कुम्भिलआ। कधेहि कहिं तए एशे महालदणभाशुले उक्किण्णणाम कले लाअकीए अङ्गुलीअए शमाशादिदे। (हण्डे कुम्भीलक, कथय कुत्र त्वया एतन्महार्त्नभासुरम् उत्कीर्णनामाक्षरं राजकीयमङ्गुरीयकं समासादितम्।)

धीवरकः—(भीतिनाटितकेन) पशीदन्तु भावमिश्रा। ण हगे ईदिशश्श अकय्यश्श कालके। (प्रसीदन्तु भावमिश्राः, नाहम् ईदृशस्याकार्यस्य कारकः।)

एकः—किं णु क्खु शोहणे बम्हणे शि त्ति कदुअ लञ्जा दे पलिग्गहे दिण्णे। (किं नु खलु शोभनः ब्राह्मणोऽसि इति कृत्वा राज्ञा ते परिग्रहः दत्तः।)

धीवरकः—शुणध दाव। हगे क्खु शक्कावदालवाशी धीवले। (शृणुत तावत् अहं खलु शक्रावतारवासी धीवरः।)

द्वितीयः—हण्डे पाडच्चला, किं तुमं अस्मेहिं यादिं वशदिं च पुश्विदे। (हण्डे पाटच्चरः, किं त्वम् अस्माभिः जातिं वसतिं च पृष्टः।)

नागरकः—सूअअ, कधेदु सव्वं कमेण। मा णं पडिबन्धेध। (सूचक, कथयतु सर्वं क्रमेण। मा एनं प्रतिबध्नीतम्।)

उभौ—यं लाउत्ते आणवेदि। लवेहि ले लवेहि। (यदीश्वरः आज्ञापयति। लप रे लप।)

धीवरकः—शे हगे यालवडिशप्पहूदीहिं मश्शबन्धनोवाएहिं कुटुम्बभलणं कलेमि। (सोऽहं जालबडिशप्रभूतिभिः मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि।)

नागरकः—(प्रहस्य) विसुद्धा दाणिं दे आजीवो। (विशुद्धः इदानीं ते आजीवः।)


हण्डे नीचसम्बोधने। बन्दिचोरो याचनः स्यात्। कुम्भीलः सन्नि(न्धि)कारक इति हारावली। अरे कुम्भीलक कथय कुत्र त्वया इदं महार्त्नभास्वरम् उत्कीर्णनामाक्षरं राजकीयमङ्गुरीयकं समासादितम्। नाटकितकमभिनयः। भावा मान्याः मिश्राः प्रधानाः। नाहमीदृशस्याकार्यस्य कारकः। किं खलु शोभनो ब्राह्मण इति कृत्वा राज्ञा ते प्रतिग्रहो दत्तः$^{77}$। शृणु तावद् अहं खलु शक्रावतारवासी धीवरः। शक्रेति तीर्थभेदः। हण्डे पाटच्चर चौरः। किं त्वमस्माभिर्जातिं वसतिञ्च पृष्टः। सूचक कथयतु सर्वं क्रमेण। मैनं प्रतिबध्नीहि। सूचकेति रक्षकनाम। यदीश्वर आज्ञापयति। न पा(आवुत)वेत्त पवातनेशब्द ईश्वरे देशी। सोऽहं जालबडिशप्रभूतिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि। बडिशं मत्स्यवेधनमित्यमरः। विशुद्ध इदानीं ते आजीवः, जीवनोपायः। भर्तु(र्तं)र्मा एवं भण।


$^{77.}$ इतः परं “कुतोपि स्वेच्छया प्राप्तः संगतो नोभयोरपि। विष्कंभकः। सविज्ञेयः-थार्थस्यापि सूचकः। असूचितस्य पात्रस्य प्रवेशो नैव दृश्यते। अतः प्रधानपात्राणां सूचकः स्यात्। प्रवेशकः। बीजं बिन्दुः पताका न प्रकरी कार्यमेव च। अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधिः” इत्यधिकम् 4118 इत्यत्रैव पठ्यते।