भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 205, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 205

अभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 191

राजा—गुरो, प्रथमम् एवास्माभिरेषोऽर्थः प्रत्यादिष्टः। किं मृषा तर्केणान्विष्यते। विश्राम्यताम्।
पुरोधाः—विजयस्व। (इति निष्क्रान्तः)
राजा—वेत्रवति, पर्याकुल इवास्मि। शयनीयगृहमादेशय।
प्रतीहारी—इदो इदो एदु देवो। (इतो इत एतु देव।)
राजा—(परिक्रामन् स्वगतम्)
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम्।
बलवत्तु दूयमानं प्रत्यायतीव मां हृदयम्॥५-३४॥
(इति निष्क्रान्ताः सर्वे)
॥ पञ्चमोऽङ्कः ॥


कामं० ।। (5-34) बलवदतिशयेन दूयमानं हृदयं कर्तृ ।।
॥ इति पञ्चमोऽङ्कः ॥