भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 204, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 204

190 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

पुरोधाः-(विचार्य) यदि तावदेवं क्रियते।
राजा-अनुशास्तु गुरुः।
पुरोधाः-अत्रभवती तावद् आप्रसवादस्मद्गृहे तिष्ठतु।
राजा-कुत इदम्।
पुरोधाः-त्वं साधुनैमित्तिकैरादिष्टपूर्वः प्रथममेवोभयचक्रवर्तिनं पुत्रं जनयिष्यसीति। स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भवति, ततः प्रतिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि। विपर्यये त्वस्याः पितुः समीपगमनं स्थितमेव।
राजा-यथा गुरुभ्यो रोचते।
पुरोधाः-(उत्थाय) वत्से, इतो इतोऽनुगच्छ माम्।
शकुन्तला-भअवदि वसुंधरे! देहि मे अन्तरं। (भगवति वसुन्धरे, देहि मे अन्तरम्।)
(इति सह पुरोधसा तपस्विभिर्गौतम्या च रुदती प्रस्थिता।
राजा शापव्यवहितस्मृतिः शकुन्तलामेव चिन्तयति।)
(नेपथ्ये) आश्चर्यम् आश्चर्यम् ..........।
राजा-(कर्णं दत्त्वा) किं नु खलु स्यात्।
पुरोधाः-(प्रविश्य, सविस्मयम्) देव, अद्भुतं खलु वृत्तम्।
राजा-किमिव।
पुरोधाः-परावृत्तेषु कण्वशिष्येषु-
सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं रोदितुं च प्रवृत्ता।
राजा-किं तदानीम्।
पुरोधाः-
स्त्रीसंस्थानं चाप्सरस्तीर्थमारात्
क्षिप्त्वैवाशु ज्योतिरेनां तिरोऽभूत्।। ५-३३।।
(सर्वे विस्मयं रूपयन्ति)


(भगवति) वसुधे, देहि मे अन्तरम् अवकाशम्।।
सा नि०।। (5-33) ।। बाहूत्क्षेपं यथा स्यात्। स्त्रीभिः स्त्रिया इव संस्थानम् आकृतिर्यस्य। आरान्तिकट-दूरान्तिकाथदिति षष्ठ्यर्थे द्वितीया। प्रत्यादिष्टो निराकृतः।।