अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 203, कुल 262 में से
संदर्भ में पढ़ेंअभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 189
शकुन्तला-अहं इमिणा दाव किदवेण विप्पलद्धा। तुम्हे वि मं परिच्चअध। (अहं अनेन तावत्कितवेन विप्रलब्धा। यूयमपि मां परित्यजथ।)
(इत्यनुप्रतिष्ठते)
गौतमी-(परिवृत्यावलोक्य च) वच्छ सङ्गरव, अणुगच्छदि णो करुणपरिदेविणी सउन्तला। पच्चादेसपिसुणे भत्तारे किं करेदु तवस्सिणी। (वत्स शार्ङ्गरव, अनुगच्छति नः करुणपरिदेविनी शकुन्तला। प्रत्यादेशपिशुने भर्तरि किं करोतु तपस्विनी।)
शार्ङ्गरवः-(सरोषं निवृत्य) आः पुरोभागिनि। किमिदं स्वातन्त्र्यमवलम्बसे।
(शकुन्तला भीता वेपते)
शार्ङ्गरवः-शृणोतु भवती।
यदि यथा वदति क्षितिदस्तथा
त्वमसि किं पितुरुत्कुलया त्वया।
अथ तु वेत्सि शुचि व्रतमात्मनः
पतिगृहे तव दास्यमपि क्षमम्॥5-30॥
तिष्ठ। साधयामो वयम्।
राजा-भोस्तपस्विन्, किमत्रभवतीं विप्रलभ्यते। पश्य-
कुमुदान्येव शशाङ्कः, सविता बोधयति पङ्कजान्येव।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः॥5-31॥
शार्ङ्गरवः-राजन्, अथ पुनः पूर्ववृत्तं व्यासङ्गाद् विस्मृतं भवेत् तदा कथम् अधर्मभीरो-र्दारपरित्यागः।
राजा-भवन्तमेव गुरुलाघवं पृच्छामि।
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः॥5-32॥
अहमेतेन तावत् कितवेन विप्रलब्धा। यूयमपि मां परित्यजत। वत्स शार्ङ्गरव अनुगच्छति नः करुणपरिदेविनी। प्रत्यादेशपिशुने भर्तरि किं करोतु तपस्विनी दीना। आः कोपे। दोषैकदृक् पुरोभागीत्यमरः।
यदि०।। (5-30) उत्कुलया कूलमुल्लङ्घ्य स्थितया। अथ पक्षान्तरे।
कुमु०।। (5-31) परिग्रहः पत्नी अर्थान्तरन्यासः। अथेति तत् प्रासनाख्य नाट्यालङ्कारः। तदुक्तम्-उत् प्रासन्तूपहासो योऽसाधौ साधुमानिनीति।
मृ(मूढ)०।। (5-32) अहो विकल्पे, परमापरिग्रहणा दारत्याग एव वरमिति भावः। नैमित्तिकैर्गणकैः।