भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 215, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 215

अभिज्ञानशकुन्तलम् षष्ठोऽङ्कः 201

कञ्चुकी- (उपगम्य) जयति जयति महाराजः। प्रत्यवेक्षिताः प्रमदवनभूमयः। यथाकामम् अध्यास्तां विनोदस्थानानि देवः।

राजा- वेत्रवति, मद्वचनादमात्यपिशुनं ब्रूहि। अद्य चिरप्रबोधान्न संभावितमस्माभिर्धर्मासनम् अध्यासितुम्। यत्प्रत्यवेक्षितमार्येण पौरकार्यं तत्पत्रमारोप्य प्रस्थाप्यतामिति।

प्रतीहारी- जं देवो आणवेदि। (यदेव आज्ञापयति।) (इति निष्क्रान्ता)

राजा- पार्वतायन, त्वमपि स्वनियोगमशून्यं कुरु।

कञ्चुकी- तथा। (इति निष्क्रान्तः)

विदूषकः- किदं भवदा णिम्मक्खिअं। संपदं सिसिरविच्छेदरमणीए इमस्सिं उज्जाणे अत्ताणं विणोदेहि। (कृतं भवता निर्मक्षिकम्। साम्प्रतं शिशिरविच्छेदरमणीये अस्मिन् उद्याने आत्मानं विनोदय।)

राजा- (निःश्वस्य) वयस्य, रन्ध्रोपनिपातिनोऽनर्था इति यदुच्यते तदव्यभिचारि। पश्य-

मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः॥६-८॥

अपि च-

उपहितस्मृतिरङ्गुलिमुद्रया प्रियतमामनिमित्तनिराकृताम्।
अनुशयादनुरोदिमि चोत्सुकः सुरभिमाससुखं समुपस्थितम्॥६-९॥

विदूषकः- भो वअस्स, चिट्ठ दाव जाव इमिणा दण्डअट्ठेण कन्दप्पवाणं णासेमि। (भोः वयस्य, तिष्ठ तावद्यावदनेन दण्डकाष्ठेन कन्दर्पबाणं नाशयामि।)

(इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति।)

राजा- (सस्मितम्) भवतु, दृष्टं ब्रह्मवर्चसम्। सखे, कुत्रेदानीमुपविष्टः प्रियायाः किंचिद् अनुकारिणीषु लतासु दृष्टिं विनोदयामि।


कृतं भवता निर्मक्षिकम्। मक्षिकाया अप्यभावो निर्जनमित्यर्थः। शिशिरविच्छेदरमणीये एतस्मिन् प्रमदवने आत्मानं विनोदय। मुनि० ।। (6-8) मुनिसुता शकुन्तला तमसा मोहेन युक्तं त्यक्तं। अन्यच्च [नाट्]यालंकारः। उप० ।। (6-9) अङ्गुलीमुद्रया अङ्गुरीयेकेण अनुलक्षीकृत्य सुरभिर्वसन्तः। अत्र रोदनमधिकमित्युक्तिपोषः। भो वयस्य, तिष्ठ तावदिति लोकोक्तिः। यावदेतेन दण्डकाष्ठेन कन्दर्पबाणान्नाशयामि।

ब्रा(ब्र)ह्मेति ।। वेदाध्ययन-न(ज)न्योत्कर्षः।