अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 216, कुल 262 में से
संदर्भ में पढ़ें| 202 | चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम् |
|---|
विदूषकः—णं भवदा आसण्णपरिचारिआ लिविअरी मेधाविणी आदिट्ठा। माहवीलदाघरए इमं वेलं अदिवाहइस्सं तहिं च मे चित्तफलए सहत्थालिहिदं तत्थभोदीए सउन्तलाए पडिकिंदिं आणेसु त्ति।
(ननु भवतासन्नपरिचारिका लिपिकरी मेधाविनी आदिष्टा। माधवीलतागृहके इमां वेलाम् अतिवाहयिष्यामि, तत्र च मे चित्रफलके स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानय इति।)
राजा—ईदृशमेव मे हृदयप्रत्याश्वासनम्। तत्तदेवादेशय माधवीलतागृहम्।
विदूषकः—इदो इदो एदु भवं। (इतो इतो एतु भवान्।)
(इति परिक्रामतः। मिश्रकेशी अनुगच्छति।)
विदूषकः—एस मणिसिलापट्टसणाधो माहवीलदामण्डवो विवित्तदाए णीसद्दसाअदेण विअ पडिच्छदि तुमं। ता पविसिअ उवविसम्ह।
(एषः मणिशिलापट्टसनाथः माधवीलतामण्डपः विविक्ततया निःशब्दस्वागतेनेव प्रतीच्छति त्वाम्। तत् प्रविश्योपविशावः।)
(उभौ तथा कुरुतः)
मिश्रकेशी—लदाए अन्तरिदा पेक्खिस्सं दाव पिअसहीपडिकिंदिं। तदो से भत्तुणो अणुराअं बहुमदं णिवेदइस्सं।
(लत्यान्तरिता प्रेक्षिष्ये तावत् प्रियसखीप्रतिकृतिम्। ततः अस्याः भर्तुः अनुरागं बहुमतं निवेदयिष्यामि।) (तथा स्थिता)
राजा—(निःश्वस्य) सखे, सर्वमिदानीं स्मरामि। शकुन्तलायाः प्रथमदर्शनवृत्तान्तं कथितवान् अस्मि भवते। स भवान्प्रत्याख्यानकाले मत्समीपगत एव नासीत्। प्रथममपि तत्रभवत्याः कीर्तितं नाम मया। कच्चिद् अहमिव विस्मृतवांस्त्वमपि।
मिश्रकेशी—अदो ज्जेव महीवदीहिं खणं पि सहिअआ सहाआ ण विरहिदव्वा। (अतः एव महीपतिभिः क्षणमपि सहृदयाः सहायाः न विरहितव्याः।)
ननु भवता प्रसन्न परिचारिका लिपिकरी मेधाविनी सन्दिष्टा। मेधाविनीति यथार्थं नाम। माधवीलतागृहे इमां वेलाम् अतिवाहरि(यि)ष्यामि।
अत्र मे चित्रफलके स्वहस्तलिखितं तत्रभवत्याः प्रतिकृतिमानयेति। इत इत एतु भवान्। एष मणिपट्टशिलासनाथो माधवीलतामण्डपो, विविक्ततया निःशब्द आगतेन पृच्छति, अनुतिष्ठतीव त्वाम्। तत् प्रविशामः।
लतयान्तरितां(ता) प्रेक्षिष्ये तावत् प्रियसख्याः प्रतिकृतिम्। ततोऽस्या भर्तुरनुरागं बहुमतं निवेदयिष्यामि। बहुमुखं बहुप्रकारमिति शाङ्करः पाठः। तथा लतान्तरितेत्यर्थः।। विस्मृत इति कर्तरि [क्तः]। अत एव महीपति[ना] क्षणमपि सहृदयाः सहाया न विवाहयितव्याः।