अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)
Abhijnanashakuntalam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)
पृष्ठ 218, कुल 262 में से
संदर्भ में पढ़ें204 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्
विदूषकः-भो। जइ एवं ता समस्ससदु भवं। अत्थि क्खु समागमो तत्थभोदीए। (भोः, यद्येवं तत् समाश्वसितु भवान्। अस्ति खलु समागमः तत्रभवत्याः।)
राजा-कथमिव।
विदूषकः-भो। ण हि मादा पिदा वा भत्तुविरहिदं चिरं दुहिदरं पेक्खिदुं पारेदि। (भोः, न हि माता पिता वा भर्तृविरहितां चिरं दुहितरं प्रेक्षितुं पारयति।)
राजा-वयस्य,
स्वप्नो नु माया नु मतिभ्रमो नु क्लृप्तं नु तावत्फलमेव पुण्यैः। असंनिवृत्त्यै तदतीव मन्ये मनोरथानामतटप्रपातम् ।।6-11।।
विदूषकः-भो, मा एवं भण। णं अङ्गुरीअअं जेव एत्थ णिदंसणं अवस्संभाविणो अचिन्तणीया समागमा होन्ति त्ति। (भोः मैवं भण। नन्वङ्गुरीयकमेवात्र निदर्शनम्, अवश्यंभाविनः अचिन्तनीयास्समागमाः भवन्तीति।)
राजा-(अङ्गुरीयकमालोक्य) इदं तदसुलभस्थानभ्रंशि शोचनीयमङ्गुरीयकम्।
तव सुचरितमङ्गुरीय नूनं प्रतनु ममेव विभाव्यते फलेन। अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु।।6-12।।
भो यत्ये(द्ये)वं तत् समाश्वसितु भवान्। न हि मातापितरौ भर्तृविरहितां दुहितरं चिरं प्रेक्षितुं पारयतः।
स्वप्नो०।। (6-11) तत्तस्मान्मनोरथानामतटं प्रपातं मन्ये। प्रपातस्त्व टतो भृगुरित्यमरः। मम मनोरथोऽत्युत्कण्ठापीडित इति भावः। असन्निवृत्तौ सत्यां अर्थात्तस्या न तु तद्दर्शनं स्वप्नो निद्रा नु। सर्व्वत्र नु वितर्के। दुष्टमनोजन्यस्थानं स्वप्नः।। माया इन्द्रजालादि...। (इतः परम् कोष्ठान्तर्गर्तोऽशः शङ्करस्य टीकारूपेण मैथिलपुस्तके गृहीतः) [[माया इन्द्रजालादिक्रिया, तया तद्दर्शनं जातम्तो न तत्समागमः$^{78}$। मतिभ्रमो नु। भ्रान्तो हि असदपि साक्षात्करोति शुक्तिकायां रजत[व]त्। पुण्यैस्तावत्....? ... तत्फलं दर्शनमात्रफलं क्लृप्तम्$^{79}$। दोषाय$^{80}$ संशयालङ्कार इति शङ्करः।। भो वयस्य, मैवं भण$^{81}$। ननु अङ्गुरीयकमेवात्र निदर्शनम् प्रमाणम्। अवश्यंभाविनोऽचिन्तनीयाः समागमा भवन्तीति। तव०। हे अङ्गुरीय, सुचरितं पुण्यं यद्यन्वहस्तगतं तावत्तदा सत्यम्। असुलभं दुर्लभं यत् स्थानं तस्या एवाङ्गुलिरूपं, तस्मात् यो भ्रंशः स्खलनं, तेन शोचनीयम्.....*।
- इतः परमेतदधिकम् पुस्तके। अत्रापि तर्क एव। उभयत्र स्वप्नेपि नानाकलितो दृश्यते। माया तु नानाव्यावम्बनी भवतीत्युपपत्तिम् आह।
- वाक्यमिदं “पुण्यैस्तावत् दर्शनमात्रफलं क्लृप्तम्” इति मैथिलपुस्तके।
- इतः पूर्वमेतदधिकम् पुस्तके, नु ऊहो वितर्क इत्युक्तः पदार्थेषु यथामतीति। संशयालंकारः निश्चयेन तु वाक्यस्य समाप्तिः संशयो यथा।
- इतः परमेतदधिकम् पुस्तके - एवं स्वप्नादिकम्। कुतस्तत्राह।