भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 218, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 218

204 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

विदूषकः-भो। जइ एवं ता समस्ससदु भवं। अत्थि क्खु समागमो तत्थभोदीए। (भोः, यद्येवं तत् समाश्वसितु भवान्। अस्ति खलु समागमः तत्रभवत्याः।)

राजा-कथमिव।

विदूषकः-भो। ण हि मादा पिदा वा भत्तुविरहिदं चिरं दुहिदरं पेक्खिदुं पारेदि। (भोः, न हि माता पिता वा भर्तृविरहितां चिरं दुहितरं प्रेक्षितुं पारयति।)

राजा-वयस्य,

स्वप्नो नु माया नु मतिभ्रमो नु क्लृप्तं नु तावत्फलमेव पुण्यैः। असंनिवृत्त्यै तदतीव मन्ये मनोरथानामतटप्रपातम् ।।6-11।।

विदूषकः-भो, मा एवं भण। णं अङ्गुरीअअं जेव एत्थ णिदंसणं अवस्संभाविणो अचिन्तणीया समागमा होन्ति त्ति। (भोः मैवं भण। नन्वङ्गुरीयकमेवात्र निदर्शनम्, अवश्यंभाविनः अचिन्तनीयास्समागमाः भवन्तीति।)

राजा-(अङ्गुरीयकमालोक्य) इदं तदसुलभस्थानभ्रंशि शोचनीयमङ्गुरीयकम्।

तव सुचरितमङ्गुरीय नूनं प्रतनु ममेव विभाव्यते फलेन। अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु।।6-12।।


भो यत्ये(द्ये)वं तत् समाश्वसितु भवान्। न हि मातापितरौ भर्तृविरहितां दुहितरं चिरं प्रेक्षितुं पारयतः।

स्वप्नो०।। (6-11) तत्तस्मान्मनोरथानामतटं प्रपातं मन्ये। प्रपातस्त्व टतो भृगुरित्यमरः। मम मनोरथोऽत्युत्कण्ठापीडित इति भावः। असन्निवृत्तौ सत्यां अर्थात्तस्या न तु तद्दर्शनं स्वप्नो निद्रा नु। सर्व्वत्र नु वितर्के। दुष्टमनोजन्यस्थानं स्वप्नः।। माया इन्द्रजालादि...। (इतः परम् कोष्ठान्तर्गर्तोऽशः शङ्करस्य टीकारूपेण मैथिलपुस्तके गृहीतः) [[माया इन्द्रजालादिक्रिया, तया तद्दर्शनं जातम्तो न तत्समागमः$^{78}$। मतिभ्रमो नु। भ्रान्तो हि असदपि साक्षात्करोति शुक्तिकायां रजत[व]त्। पुण्यैस्तावत्....? ... तत्फलं दर्शनमात्रफलं क्लृप्तम्$^{79}$। दोषाय$^{80}$ संशयालङ्कार इति शङ्करः।। भो वयस्य, मैवं भण$^{81}$। ननु अङ्गुरीयकमेवात्र निदर्शनम् प्रमाणम्। अवश्यंभाविनोऽचिन्तनीयाः समागमा भवन्तीति। तव०। हे अङ्गुरीय, सुचरितं पुण्यं यद्यन्वहस्तगतं तावत्तदा सत्यम्। असुलभं दुर्लभं यत् स्थानं तस्या एवाङ्गुलिरूपं, तस्मात् यो भ्रंशः स्खलनं, तेन शोचनीयम्.....*।


  1. इतः परमेतदधिकम् पुस्तके। अत्रापि तर्क एव। उभयत्र स्वप्नेपि नानाकलितो दृश्यते। माया तु नानाव्यावम्बनी भवतीत्युपपत्तिम् आह।
  2. वाक्यमिदं “पुण्यैस्तावत् दर्शनमात्रफलं क्लृप्तम्” इति मैथिलपुस्तके।
  3. इतः पूर्वमेतदधिकम् पुस्तके, नु ऊहो वितर्क इत्युक्तः पदार्थेषु यथामतीति। संशयालंकारः निश्चयेन तु वाक्यस्य समाप्तिः संशयो यथा।
  4. इतः परमेतदधिकम् पुस्तके - एवं स्वप्नादिकम्। कुतस्तत्राह।