भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 228, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 228

214 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा- संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा। कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा।।6-27।।

मिश्रकेशी-अपरिच्चत्ता दाणिं दे भविस्सदि। (अपरित्यक्ता इदानीं ते भविष्यति।)

चेटी-(जनान्तिकम्) अज्जे, एदं पत्तं पेसअन्तेण दिउणाणुदावो किदो भट्ठा अमच्चेण। ता मेहच्छण्णावद्विदं संतावणिव्वावइत्तअं अज्जमाधव्वं गेण्हिअ आअच्छ। (आर्ये, एतत्पत्रं प्रेषयता द्विगुणानुतापः कृतः भर्ता अमात्येन। तन्मेघच्छन्नावस्थितं संतापनिर्वापयितारम् आर्यमाधव्यं गृहीत्वा आगच्छ।)

प्रतीहारी-सुट्ठु दे भणिदं। (सुष्ठु ते भणितम्।) (इति निष्क्रान्ता)

राजा-अहो, दुःषन्तस्य संशयमारूढाः पिण्डभाजः। अस्मात्परं बत यथास्मृति संभृतानि को नः कुले निवपनानि करिष्यतीति। नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुसेकमुदकं पितरः पिबन्ति।।6-28।।

मिश्रकेशी-सदि क्खु दीवे ववधानदोसेण अन्धआरं अणुभवदि राएसी। (सति खलु दीपे व्यवधानदोषेणान्धकारमनुभवति राजर्षिः।)

चेटी-भट्ठा, अलं संताविदेण। वअत्थो ज्जेव पहू अवरासुं देवीसुं अणुरूवपुत्तजन्मेण पुव्वपुरिसाणं अरिणो भविस्सदि। (आत्मगतम्) ण मे वअणं पडिच्छदि भट्ठा। अथवा अणुरूव जेव ओसधं आदङ्कं णिअत्तेदि। (भर्तः, अलं संतापितेन। वयःस्थः एव प्रभुः अपरासु देवीषु अनुरूपपुत्रजन्मना पूर्वपुरुषाणामनृणः भविष्यति। न मे वचनं प्रतीच्छति भर्ता। अथवा- अनुरूपमेवौषधम् आतङ्कं निवर्तयति।)


संरोपित इति।। (6-27)।। आत्मनि संरोपितेऽर्थात् तस्या गर्भे जाते इत्यर्थः। यदुक्तम् “आत्मा वै जायते पुत्र” इति। काले वर्षासु।। अपरित्यक्तेदानीं ते भविष्यति। आर्ये इदं पत्रं प्रेषयता द्विगुणानुतापः कृतो भर्तामात्येन। तन्मेघच्छन्नावस्थितं संतापनिर्वापकमार्य-माधव्यं गृहीत्वा गच्छ। श्रेष्ठं प्रशस्तं यत्त्वया भणितम्। पिण्डभाजः पितरः।।

अस्मात्०।। (6-28)।। दुष्म(ष्य)न्तात्। निवपनानि जलाञ्जल्यादीनि। मृतेद्देश्यकोदकदानं निवापः। प्रसिक्तं दत्तम्। धौतेति क्रियाविशेषणम्। विन्यासो नाम नाट्यालङ्कारः। तदुक्तं-“निर्वेद-वाक्यवचनं विन्यासस्तु प्रकीर्तितः“ इति शङ्करः।।

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित) · पृष्ठ 228, कुल 262 में से · BharatKosha