भारतकोश
अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

पृष्ठ 239, कुल 262 में से

संदर्भ में पढ़ें
पृष्ठ 239

अभिज्ञानशकुन्तलम् सप्तमोऽङ्कः 225

बालः- (सस्मितम्) अम्मो, बलिअं खु भीदे स्मि। (अम्मो, बलीयः खलु भीतोऽस्मि।) (इत्यधरं दशति)

राजा- (सविस्मयम्) महत्तस्तेजसो बीजं बालोऽयं प्रतिभाति मे।
स्फुलिङ्गावस्थया वह्निरेधःक्षय इव स्थितः॥7-15॥

प्रथमा- वच्छ, मुञ्च इमं बालमइन्दअं। अण्णं दे कीळणअं दाइस्सं। (वत्स, मुञ्चेमं बालमृगेन्द्रम्, अन्यं ते क्रीडनकं दास्यामि।)

बालः- कहिं शे। देहि मे। (कुत्र एषः, देहि मे।) (इति हस्तं प्रसारयति)

राजा- (हस्तं विलोक्य) कथं चक्रवर्तिलक्षणमनेन धार्यते। तथा हि-
प्रलोभ्यवस्तुप्रणयप्रसारितो
विभाति जालग्रथिताङ्गुलिः करः।
अलक्ष्यपत्रान्तरमिद्धरागया
नवोषसा भिन्नमिवैकपङ्कजम्॥7-16॥

द्वितीया- सुव्वदे, ण एसो सक्को वाआमेत्तकेण समइदुं। ता गच्छ, मम केरए उडए मङ्कणअस्स इसिकुमारअस्स केरओ वण्णअचित्तिदो मट्टिआमोरो चिट्ठदि। तं से उवहर।
(सुव्रते, नैषः शक्यः वाङ्मात्रेण शमयितुम्। तद्गच्छ। मदीये उटजे मङ्कणकस्य ऋषिकुमारकस्य वर्णकचित्रितः मृत्तिकामयूरः तिष्ठति। तमस्मै उपहर।)

प्रथमा- तथा। (तथा) (इति निष्क्रान्ता)

बालः- ताव इमिणा येव कीळ्इशं। (तावत् अनेनैव क्रीडिष्यामि।)


बीजं०।। (7-15)।। महतः कारणम्। शङ्करस्तु अयं बालो नोऽस्माकं तेजसः क्षत्रिय-रूपस्याहितमर्पितं बीजं रेतः प्रतिभातीत्याह। एधः क्षत्रिये काष्ठे क्षयार्थम्। एधः काष्ठे इति शङ्करः।।

मुञ्चेमं बालमृगेन्द्रम्। अन्यते क्रीडनकं दास्यामि। कुत्र मे देहि। चक्रवर्तिलक्षणं अङ्कुशादिरेखारूपम्। तदुक्तम्-अङ्कुशं कुण्डलं चक्रं यस्य पाणितले भवेत्। चक्रवर्ती भवेन्नित्यं सामुद्रकवचो यथा।। इति⁹¹।।

प्रलोभ्य ०।। (7-16)।। प्रणयः प्रार्थनम्। संहताङ्गुलिः संश्लिष्टाङ्गुलिः करवत्तापि महापुरुषत्व सूचिका नवो यदापि जले पदे भुजारिति नरनारा[य]ण विशेषणमुक्तम्। जलेति करे आवर्तभेद इत्यन्यः। अलक्ष्यमदृश्य पत्रमभ्यन्तरं उषसा सन्ध्या उषः प्रत्यूषसि क्लीबं पितृप्रस्वान्तेयोषितीति कोषः। मुञ्चते मुञ्चैनं। न एवं शक्यो वाङ्मात्रेण शमयितुम् तद् गच्छ मदीये उटजे मङ्कणकस्य⁹² ऋषिकुमारस्य वर्णकचित्रितो मृत्तिकामयूरस्तिष्ठति, तमस्मै उपहर। तावदेतेनैव क्रीडिष्यामि। मुञ्चैनम्।


  1. मैथिलपाठे शङ्करस्य टीकायाम् इतस्तः गृहीतोऽयम् [[कोष्ठे निवेशितः]] अंशः अत्र समाप्यते।
  2. देवनागरी-वाचनायां मार्कण्डेयस्येति पाठो दृश्यते।