अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
DevanagariSanskritpublished337 पृष्ठ
पृष्ठ 317, कुल 337 में से
संदर्भ में पढ़ेंपृष्ठ 317
(256) अगस्त्य-संहिता
अथ कथा प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः। उपोषणं न कुरुते कुम्भीपाकेषु पच्यते¹ ।।1।। यत्किंचिद्राममुद्दिश्य नो ददाति स्वशक्तितः। रौरवेषु स मूढात्मा² पच्यते³ नात्र संशयः।।2।। पीताम्बराणि⁴ देवाय प्रार्थितान्यर्पयेत्सुधीः। स्वर्णयज्ञोपवीतानि दद्याद्देवाय भक्तितः।।3।। नानारत्नविचित्राणि दद्यादाभरणानि च। हिमाम्बुघृष्टरुचिरघनसारसमन्वितम् ।।4।। गन्धं दद्यात्प्रयत्नेन सागुरुं च सकुङ्कुमम्। मूलमन्त्रेण सकलानिपुचारान्प्रकल्पयेत्।।5।। कह्लारकेतकीजातीपुन्नागाद्यैः प्रपूजयेत्। चम्पकैः शतपत्रैश्च सुगन्धैः सुमनोहरैः।।6।। घण्टां च वादयन्⁵ धूपं दीपं चास्मै समर्पयेत्। भक्ष्यभोज्यादिकं भक्त्या देवाय⁶ विधिनार्पयेत्।⁷।7।। एवं सोपस्करं देवं ⁷दत्वा पापैः प्रमुच्यते। जन्मकोटिकृतैः घोरैर्नानारूपैः सुदारुणैः।।8।। विमुक्तस्तत्क्षणादेव⁸ राम एव भवेन्मुने। श्रद्धाधानस्य ते प्रोक्तं⁹ श्रीरामनवमीव्रतम्।।9।। सर्वलोकहितार्थाय पवित्रं पापनाशनम्।¹⁰ लौहेन निर्मितं चापि शिलया दारुणापि वा।।10।। येन केन प्रकारेण यस्मै कस्मै क्रमान्मुने।¹¹ चैत्रशुक्लनवम्यां तु दत्वा विप्राय भक्तितः।।11।। सर्वपापविनिर्मुक्तो भवेदेव न संशयः। तस्मिन् दिने महापुण्ये स्नानदानादिकं मुने।।12।। कृतं सर्वप्रयत्नेन यत्किंचिदपि भक्तितः। महादानादितुल्यं स्याद्रामोद्देशेन यत्कृतम्।।13।। वित्तसाठ्यन्न कर्तव्यं सर्वं कुर्यात्स्वभक्तितः। तस्मिन् दिने महापुण्ये प्रातारभ्य भक्तितः।।14।।
- मज्जति। 2. समारूढा। 3. पच्यन्ते। 4. चीराम्बराणि। 5 वाद्येत्। 6. दद्याद्देवाय।
- अधिक पाठ – ब्राह्मणाय निवेदयेत्। अनेन विधिना कुर्यात्। ।8. मुच्यते तत्क्षणादेव।
- भक्त्या त्वयि संप्रोक्तं। 10. यः कुर्याद्विधिवत्प्राज्ञो राम एव न संशयः। 11. च वा मुने।