अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
पृष्ठ 334, कुल 337 में से
संदर्भ में पढ़ेंपरिशिष्ट 4 (273)
अथ पञ्चत्रिंशोत्तरशततमोऽध्यायः रामानन्दमहं वन्दे योगिध्येयाङ्घ्रिपङ्कजम्। उदारयशसं देवं शान्तमूर्तिं शुभप्रदम्॥१॥ अष्टोत्तरशतं वक्ष्ये नाम्नां यस्य महात्मनः। यैरिज्यमानो भगवान् कामानाशु प्रदास्यति॥२॥ पठतां पठितैर्ध्यातैर्धायतां शृण्वतां श्रुतैः। शुभप्रदैः सतां ग्राह्यैर्महापापप्रणाशनैः॥३॥ रामानन्दो रामरूपो राममन्त्रार्थवित्कविः। राममन्त्रप्रदो रम्यो राममन्त्ररतः प्रभुः॥४॥ योगिवर्यो योगगम्यो योजगज्ञो योगसाधनः। योगिसेव्यो योगनिष्ठो योगात्मा योगरूपधृक्॥५॥ सुशान्तः शास्त्रकृत् शास्ता शत्रुजिच्छान्तिरूपधृक्। समयज्ञः शमी शुद्धः शुद्धधीः शुद्धवेषधृक्॥६॥ महान् महामतिर्मान्यो वदान्यो भीमदर्शनः। भयहृद् भयकृद् भर्त्ता भव्यो भवभयापहः॥७॥ भगवान् भूतिदो भोक्ता भूतेज्यो भूतभृद् विभुः। ज्ञातज्ञेयोऽतिगम्भीरो गुरुज्ञानप्रदो वशी॥८॥ अमोघोऽमोघदृग्दान्तोऽमोघभक्तिरमोघवाक् । सत्यः सत्यव्रतः सभ्यः सत्प्रियः सत्परायणः॥९॥ सुसिद्धः सिद्धिदः साधुः सिद्धिभृत् सिद्धिसाधनः। सिद्धसेव्यः शुभकरः सामवित् सामगो मुनिः॥१०॥ पूतात्मा पुण्यकृत् पुण्यः पूर्णः पूर्तिकरोऽघहा। अर्च्योऽर्चकः कृती सौम्यः कृतज्ञः ऋतुकृत् ऋतुः॥११॥ अजय्यः शीलवान् जेता विनेता नीतिमान् स्वभूः। वाग्मी श्रुतिधरः श्रीमान् श्रीदः श्रीनिधिरात्मदः॥१२॥ सर्वज्ञः सर्वगः साक्षी समः समदृशिः सदृक्। शुभज्ञः शुभदः शोभी शुभाचरः सुदर्शनः॥१३॥ जगदीशो जगत्पूज्यो यशस्वी द्युतिमान् ध्रुवः। इतीदं कीर्तिदं यस्य नाम्नामष्टोत्तरं शतम्॥१४॥