भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 117, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 117

११२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

अथाष्टमः खण्डः ।

प्राणदेवताया नानाविधविभूतिरूपान्ध्येयगुणानुक्त्वा समस्तकार्यकारणरूपजगदात्मकत्वलक्षणं गुणं ध्येयं विधत्ते—

आपा३ इत्याप इति तदिदमाप एवेदं वै मूलमद- स्तूलमयं पितैते पुत्रा यत्र ह क्व च पुत्रस्य तत्पितु- र्यत्र वा पितुस्तद्वा पुत्रस्येत्येतत्तदुक्तं भवति, इति।

पूर्वत्र—“तस्य वाचा सृष्टौ” [ऐ० आ० २ अ० १ ख० ७] इत्यादिना पुरुषस्य सृष्टिहेतुत्वं यदुक्तं तदेतन्निमित्तकारणत्वाभिप्रायम् । पुरुषो हि पूर्वस्मिञ्जन्मनि ज्ञानकर्मणी अनुष्ठायेदानींतनसृष्टेर्निमित्तं भवति । अत्र तु जगत उपादानकारणं विचार्य निर्णयते । मृतिर्विचारार्था । अप्शब्देन पञ्च भूतान्युपलक्ष्यन्ते । स्थावरजङ्गमदेहरूपस्य जगतः किं पञ्च भूतान्युपादानमाहोस्विदन्यत्किंचिदिति संशये सत्यप्शब्दोपलक्षितानि पञ्च भूतान्येवोपादानमिति निर्णायोच्यते । कार्यभूतेषु देहेषु पञ्चभूतानुगतेर्दृश्यमानत्वात्। सा चानुगतिर्गर्भोपनिषद्याम्नाता—“अस्मिन्पञ्चात्मके शरीरे यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिरं तदाकाशमित्युच्यते” [गर्भो० १।] इति। तत्तस्मात्कारणादिदं कृत्स्नदेहरूपं जगदप्शब्दोपलक्षितानि पञ्च भूतान्येव कार्यकारणयोर्मृद्घटयोरत्यन्तभेदादर्शनात् । इदं वै यथोक्तमप्शब्दोपलक्षितभूतपञ्चकमेव मूलमुपादानं कारणमदः स्थावरजङ्गमदेहरूपं जगत्तूलं कार्यम् । अतः परस्परैक्यं युक्तम् । तथा निमित्तकारणभूतोऽयं पुरुषः पिता । एते पृथिव्यग्न्यादिदेवतादेहाः पुत्राः । तयोश्च परस्परं नात्यन्तं भेदः । कथं भेदाभाव इति चेत्तदुच्यते—लोके पुत्रस्य वस्तु यत्र ह क्वच यस्मिन्कस्मिन्नपि ग्रामान्तरे विद्यमानं तत्सर्वं पितुः स्वं भवति । पिता हि तदानीयानुभवति । अथवा पितुः संबन्धि यद्वस्तु ग्रामान्तरे विद्यते तद्वा तदपि पुत्रस्य स्वं भवत्येव । पुत्रोऽपि तदानीयानुभवति । परस्परद्रव्यानुभवेन यदैक्यमस्येतत्तदैक्यं तेत्तेनायं पितैते पुत्रा इति वाक्येनोक्तं भवति । भूतपञ्चकस्य पृथिव्यादिदेवतादेहानां च कार्यकारणरूपेण यदैक्यमुपासकपुरुषस्य पितृरूपस्य पुत्ररूपाणां देवतात्मनां च यदैक्यं तदुभयं प्राणगुणत्वेन ध्येयमित्यर्थः ।

उक्तार्थदार्ढ्याय महर्षिवाक्यं दर्शयति—

एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेय आऽहं मां देवेभ्यो वेद ओ मदेवान्वे- देतःप्रदाना ह्येत इतःसंभृता इति, इति।


१ ख. ग. ॰र्यकरं । २ घ. ङ. तदेतदुभयं पिं ।