ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 118, कुल 304 में से
संदर्भ में पढ़ेंअध्या० १ ख० ८] ऐतरेयारण्यकम्। ११३
इतराख्यायाः कस्याश्चित्स्त्रिया अपत्यमैतरेयः स च नाम्ना महिदासस्तादृशो महर्षिस्तदेतत्पूर्वकं कार्यकारणद्रव्यैक्यं पितृपुत्रैक्यं चोपासनया प्राणात्मकत्वं प्राप्तस्य स्वस्य गुणत्वेन विद्वाञ्छिष्याणामग्रे तत्प्रकटनार्थमिदं वाक्यमुक्तवान् । मामहमादेवेभ्यो वेद । आकारो निपातोऽभिविधौ वर्तते । देवैः सहितं तदभिन्नं मत्स्वरूपमहं वेदोपासे । ओ^१ मदित्यत्राऽऽकार उकारश्चेति पदद्वयम् । देवानु देवानपि सर्व्वान् मद्भेद मया सहितानेकत्वेनोपासे । न च पुरुषस्य मम देवसाहित्यमयुक्तमिति शङ्कनीयम् । एते देवा इतःप्रदाना हि । इतोऽस्माल्लोकात्पुरोडाशादि प्रदानं येषां ते इतःप्रदानाः । तस्मादेव कारणादितः संभृता एतल्लोकप्रत्ताद्धविर्भिः सम्यक्पोषिताः । तेनोपासकस्य देवैः साहित्यं युक्तमित्येवं महर्षिरुवाच ।
गुणान्तरं विधत्ते—
स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणस्तं ब्रह्मगिरिरित्याचक्षते, इति ।
योऽयं चक्षुरादीन्द्रियसमूहः स एष प्राणदेवताया गिरणाद्गिरिरित्युच्यते । यथा निगीर्णमन्नादिकं बहिर्नोपलभ्यते तथेयं प्राणदेवता चक्षुरादीन्द्रियैर्निगीर्णेव तिरोहिता सती लौकिकैर्नोपलभ्यते । यस्मादेवं तस्मात्तं चक्षुरादीन्द्रियसंघातं ब्रह्मगिरिरित्येवमभिज्ञा आचक्षते । प्राणरूपस्य ब्रह्मणो निगरैणतिरोधानाद्ब्रह्मगिरित्वम् । चक्षुरादिरूपेण तिरोहितं प्राणरूपं ब्रह्मेति ध्यायेत् ।
ब्रह्मगिरि[त्व]गुणध्यानस्य फलमाह—
गिरति ह वै द्विषन्तं पाप्मानं भ्रातृव्यं पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद, इति ।
पापरूपः शत्रुरनुष्ठानविघ्नरूपं द्वेषं करोति तं गिरति विनाशयति । स च पाप्मा पराभूतः सर्वात्मना विनष्टो भवति ।
तामेतामुपास्यां प्राणदेवतां प्रशंसति । यद्वा गुणान्तराणि विधत्ते—
स एषोऽसुः स एष प्राणः स एष भूतिश्चाभूतिश्च, इति ।
योऽयमुपास्यो देवः स एष देहेन्द्रियादिसंघातमस्यति क्षिपति प्रेरयतीत्यसुः । प्रकर्षेणानिति स्वयं चेष्टत इति प्राणः । एतस्या देवतायाः शरीरेष्ववस्थाने सति जीवात्माऽपि तत्र भवत्यवतिष्ठते तस्माज्जीवात्मसद्भावहेतुत्वाद्भूतिरित्युच्यते । प्राणदेवताया निर्गमने सत्यत्र जीवात्मा न भवति नावतिष्ठते तस्मादभूतिरित्युच्यते । गुणचतुष्टयं ध्येयमित्यर्थः ।
१ क. ख. ओमित्य० । २ क. ख. घ. ङ. ०रणाति० ।
१५