भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 137, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 137

१३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

पतिः” [ ऐ० आ० २ अ० १ ख० २ ] इति प्रस्तुतत्वादेतस्मिन्नेव ध्यानमुचितम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १४ )


अथ तृतीयः खण्डः । ( पञ्चदशः )

पूर्वत्राऽऽत्माविर्भावध्यानमुक्तमत्र समुद्ररूपत्वादिव्यानमुच्यते । तत्राऽऽदौ पुरुषस्य समुद्ररूपत्वध्यानं विधत्ते—

स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किंवा-
श्रुतेऽत्येनं मन्यते यद्यन्तरिक्षलोकमश्रुतेऽत्येनं
मन्यते यद्यमुं लोकमश्रुवीतात्येवैनं मन्येत, इति ।

“पुरुष एवोक्थम्” [ ऐ० आ० २ अ० १ ख० २ ] इति शस्त्रस्वरूपत्वेन यः पुरुषः प्रकृतः स एष पुरुषः समुद्ररूपः । यथा समुद्रस्तटाकनद्यादिकं सर्वमति- क्रम्य प्रौढो वर्तते तथाऽयं पुरुषोऽपि सर्वं लोकमतिक्रम्य वर्तते । स एवातिक्रमः कथमिति चेत्तदुच्यते—यद्ध किंच भूलोके यत्किंचिद्भोग्यजातमश्रुते व्याप्नोति तमेनं भोग्यपदार्थमतिक्रम्य मन्यतेऽन्तरिक्षलोकगतमपि भोग्यं मे भूयादिति कामयते । यदा त्वन्तरिक्षलोकगतं प्राप्नोति तदानीमेनपि भोग्यपदार्थमतिक्रम्ये मन्यते स्वर्गभोगोऽपि मे भूयादिति कामयते । तस्यापि प्राप्तौ तमतिक्रम्य सत्यलोकादिभोगोऽपि मे भूयादिति कामयेतैव । एतदेवाभिप्रेत्य शाखान्तरे मन्त्रब्राह्मण एवमाम्नायते—“काम५ समुद्रमा- विशेत्याह । समुद्र इव हि कामः । नैव हि कामस्यान्तोऽस्ति । न समुद्रस्य” [ तै० ब्रा० का० २ प्र० २ अनु० ९ ] इति । अतः समुद्रसमानत्वात्पुरुषे समुद्रध्यानं युक्तम् ।

पुरुषशरीरावयवेषु पञ्चभूतध्यानं विधत्ते—

स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि
खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतस्ता आपो
यच्छरीरं सा पृथिवी यः प्राणः स वायुः, इति ।

उष्णं जाठराग्न्यादिरूपम् । खानि मुखनासिकादिच्छिद्राणि । शरीरशब्देन काठिन्यं विवक्षितम् “यत्कठिनं सा पृथिवी” [ गर्भोप० १ ] इति श्रुत्यन्तरात् ।

पुरुषशरीरगतस्य प्राणवायोः पञ्चवृत्तिभेदध्यानं विधत्ते—

स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समा-
नस्ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं


१ ख. ग. 'मयेत् । य' । २ क. ख. ग. 'म्य स्वर्गलोके भो' । ३ क. ख. ग. 'श्रतद्ब्राह्म' ।