ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 138, कुल 304 में से
संदर्भ में पढ़ेंअध्या० ३ ख० ३ (१६)] ऐतरेयारण्यकम् । १३३
मनो वागिति प्राणस्य ह्यन्वपायेमेता अपियन्ति, इति ।
हृदयादूर्ध्वं मुखनासिकयोः संचरन्वायुः प्राणः । अधोद्वारे संचरन्नपानः । सर्वासु नाडीषु व्याप्य वर्तमानो व्यानः । जीवोत्क्रान्त्यादिकं कर्तुमूर्ध्वभागे कण्ठेऽवस्थित उदानः । अन्नपाने साम्येन कृत्स्नशरीरे नेतुं नाभिसमीपेऽवस्थितः समानः । तदे- तद्वायोः पञ्चविधत्वं ध्यायेत् । चक्षुःश्रोत्रमनोवागादिदेवता अप्यत्र पृथग्ध्यातव्या इति न शङ्कनीयम् । तासां देवतानामूर्ध्वाधोभागवर्तिनोः प्राणापानयोरेवान्तर्भावात् । तदेव कथमिति चेत्तदुच्यते—यस्मात्प्राणस्यापायं देहादपगमनमनु सर्वा एताश्चक्षुरादिदे- वता अपियन्ति लीयन्ते न देहे तिष्ठन्ति, तस्मादन्तर्भूतत्वान्न पृथग्ध्यानम् । यज्ञस्यावान्तरभेदरूपेण ध्यानं विधत्ते—
स एष वाचश्चित्तस्योत्तरोत्तरिक्रमो यद्यज्ञः स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः स एष यज्ञानां संपन्नतमो यत्सोम एतस्मि- न्ध्येताः पञ्च विधा अधिगभ्यन्ते यत्प्राक्सवनेभ्यः सैका विधा त्रीणि सवनानि यदूर्ध्वं सा पञ्चमी, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १६ )
वाचो मन्त्रोच्चारणादिर्व्यापारस्तथाचित्तस्य शास्त्रविहितार्थपर्यालोचनव्यापारस्तस्यान्तः- करणस्य चोत्तरोत्तरिक्रमः । एकस्मादितरस्योत्तरत्वं तस्मादप्यन्यस्योत्तरत्वमित्येव- मुत्तरोत्तरभावो यस्य क्रमस्यास्ति सोऽयमुत्तरोत्तरिक्रमः । क्रमेण व्यापार इत्यर्थः । तूष्णीमवस्थानादुत्तरभावी मनसा शास्त्रार्थपर्यालोचनव्यापारस्ततोऽप्युत्तरभावी वाचा मन्त्रोच्चारणव्यापारस्तदुभयव्यापाररूपो यज्ञ इति यदस्ति स एष उक्थात्मकपुरुषरूपः प्राणदेवः । स च यज्ञात्मकः प्राणाग्निहोत्रादिभेदैः पञ्चविध इति ध्यायेत् । न च सोमादप्यधिकं किंचित्कर्मान्तरं कुतो नोच्यत इति वाच्यम् । अधिकस्य कर्मान्तरस्या- भावात् । सोमयाग इति यदस्ति स एष यज्ञानां मध्येऽतिशयेन संपन्नः । यस्मादेत- स्मिन्सोमयागे पञ्चप्रकारमनुष्ठानं दृश्यते । सुत्यादिनेऽनुष्ठेयेभ्यः सवनेभ्यः प्राचीनं दीक्ष- णीयादिकं यदस्ति सोऽयमेकः प्रकारः । प्रातःसवनं माध्यंदिनं सवनं तृतीयसवनं चेति प्रकारत्रयम् । सवनेभ्य ऊर्ध्वमवभृथमारभ्योदैवसानीयान्तं यत्कर्मजातमस्ति सोऽयं पञ्चमः
१ ख. ग. 'ङ्गतदवा' । घ. ङ 'ङ्गस्य तदवा'। २ क. 'दिरूपादिब्या' । ३ घ. ङ. 'व्यावृता'। ४ ङ. 'व्यावृत' । ५ क. 'त्तरित्वं । ६ क. ख. ङ. क्रमणं । ७ ख. ग. शास्त्रीयपं । घ. शास्त्रविहितार्थं । ८ ख. ग. 'चनं व्या'। ९ क. 'त्मकः पु' । १० क. ख. ग. ध्यानम् । ११ ग. अत्यधिं । घ. ङ. अभ्यधिं । १२ क. ख. घ. ङ. 'वसानी' ।