भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 141, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 141

१३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

द्रष्टव्यः । तदेवमुक्थं स्तोमवशात्पञ्चविधं ध्यायेत् । “तत्स॑वि॒तुर्वरे॑ण्यम्” [ ऋ० सं० म० ३ सू० ६२ ऋ० १० ] इत्यस्यामृच्युत्पन्नं साम गायत्रनामकम् । “अ॒भि त्वा॒ शूर॑” [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यस्यामुत्पन्नं रथंतरम् । “त्वामिद्धि हवामहे” [ ऋ० सं० म० ६ सू० ४६ ऋ० १ ] इत्य- स्यामृच्युत्पन्नं बृहत् । “इ॒मा नु कम्” [ ऋ० सं० म० १० सू० १५७ ऋ० १ ] इत्यस्यामृच्युत्पन्नं भद्रम् । “इन्द्रं॒ नरो॒ नेम॑ धिता” [ ऋ० सं० म० ७ सू० २७ ऋ० २८] इत्यस्यामृच्युत्पन्नं राजनम् । एवमुक्थस्य सामतः पञ्चविधत्वम् । चतुर्विंश- त्यक्षरा गायत्री । अष्टाविंशत्यक्षरोष्णिह् । षट्त्रिंशदक्षरा बृहती । चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । पादद्वयेनैव निष्पन्ना द्विपदा । इत्येवं छन्दोवशात्पञ्चविधत्वम् । यथा पक्षिणः शिरःपक्षाद्यवयवास्तथा निष्केवल्यशस्त्रस्य “इन्द्र॒मिद्गा॒थिनो॑” [ ऋ० सं० म० १ सू० ७ ऋ० १ ] इत्यादिमन्त्रसमूहः शिरः । अभि त्वा शूर” [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यादिको दक्षिणः पक्षः । “त्वामिद्धि” [ ऋ० सं० म० ६ सू० ४६ ऋ० १ ] इत्यादिक उत्तरः पक्षः । “इमा नुकम्” [ ऋ० सं० म० १० सू १५७ ऋ० १] इत्यादिसमूहः पुच्छम् । “तदिदास” [ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिको मध्यशरीररूप आत्मा । इत्येवं पक्षि- रूपं ब्राह्मणेनाऽऽम्नायते । तदेतदारूणायमानं पञ्चविधं पक्षिरूपमुक्थे ध्यायेदित्यर्थः ।

प्रकारान्तरेण पञ्चविधत्वध्यानं विधत्ते—

पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निध- नमुपयन्ति तत्स्तोभसहस्रं भवति, इति ।

सामगा महाव्रते राजननाम्ना स्तुवते । साम्नि च पञ्च भागाः सन्ति । प्रस्ताव उद्गीथः प्रतिहार उपद्रवो निधनमित्येते भागाः । तत्र प्रस्तावभागं गायन्प्रस्तोता पञ्च- कृत्व आवृत्तं गायति । एवमुद्गाताप्रतिहर्त्तारौ स्वस्वभागं पञ्चकृत्वो गायतः । ऋत्वि- गन्तराभावादुपद्रवभागमुद्गातैव गायति । सोऽपि पञ्चकृत्वो गायति । सर्वे निधनमुप- यन्तीतिविधानात्प्रस्तोत्रादयः सर्वेऽपि पञ्चकृत्वो निधनभागं गायन्ति । एवं सत्यत्र भागभेदेन यत्पञ्चविधत्वं यच्चैकैकस्याऽऽवृत्त्या पञ्चविधत्वं तदुभयमुक्थे ध्यातव्यम् । प्रस्तावादिभागानां पञ्चकृत्वो गानमस्ति । तत्तस्मिन्गाने स्तोभानां सहस्रं संपद्यते । ऋगक्षरव्यतिरेकेण गीतिपूरणार्थं येऽक्षरसमूहाः प्रक्षिप्यन्ते ते स्तोभसंज्ञकास्तेषां सहस्र- त्वसंपादनं सामसूत्रे द्रष्टव्यम् । सेयं सहस्रसंख्या यथोक्तपञ्चविधत्वप्रशंसार्थमुपन्यस्यते ।


१ घ. ङ. स्तुवन्ति । २ क. स्तोमानां । ख. ग. स्तोमभागानां । ३ ग. 'तिपरिपूर्' ।