भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 142, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 142

अध्या० ३ ख० ४ (१६)] ऐतरेयारण्यकम् । १३७

प्रकारान्तरेण पञ्चविधत्वध्यानं विधत्ते—

एवं होताः पञ्च विधा अनुशस्यन्ते यत्प्राक्तृचाशीतिभ्यः
सैका विधा तिस्रस्तृचाशीतयो यदूर्ध्वं सा पञ्चमी, इति ।

यथा प्रस्तावादिभागैस्तत्तदावृत्तिभिश्च पञ्चविधं स्तोत्रं सामगाः संपादयन्ति, एवमेवैता निष्केवल्यगता ऋचो होत्रा पञ्च विधा अनुशस्यन्ते । कथं पाञ्चविध्यमिति चेत्तदुच्यते—“महाँ इन्द्रो य ओजसा” [ ऋ० सं० म० ८ सू० ७ ऋ० १ ] इत्यादिका येयं गायत्री तृचाशीतिर्या च “मा चिदन्यत्” [ ऋ० सं० म० ८ सू० १ ऋ० १ ] इत्यादिका बार्हती तृचाशीतिर्याऽपि “य इन्द्र सोम [पातम:]” [ ऋ० सं० म० ८ सू० १२ ऋ० १ ] इत्यादिकौष्णिही तृचाशीतिस्तास्तिस्रस्तृचाशीतयः । शस्त्रपक्षिणोऽन्नरूपास्ताभ्यः प्राचीनमात्मशिरःपक्षादिभागरूपं यन्मन्त्रजातमस्ति सेयमेका विधा । तृचाशीतयस्तु त्रि(तिस्रो)विधाः । ताभ्य ऊर्ध्वमुदरभागश्चेत्येवंरूपं यन्मन्त्रजातमस्ति सा पञ्चमी विधा । तदेतच्छस्त्रस्य पञ्चविधत्वं ध्यायेत् ।

तदेतच्छस्त्रगतं पञ्चविधत्वं प्रशंसति—

तदेतत्सहस्रं तत्सर्वं तानि दश दशेति वै सर्वमेतावत्या
हि संख्या दश दशतस्तच्छतं दश शतानि तत्सहस्रं
तत्सर्वं तानि त्रीणि च्छन्दांसि भवन्ति त्रेधा विहितं
वा इदमन्नमशनं पानं खादस्तदेतैराप्नोति , इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये
चतुर्थः खण्डः ॥ ४ ॥ ( १६ )

यथोक्तपञ्चविधे शस्त्रे यदेतन्मन्त्रजातमस्ति तत्सर्वं मिलित्वा बुद्धिकौशलेनाक्षरगणनया बृहतीसहस्रं संपद्यते । पूर्वोक्तस्तोभद्वारा बृहतीद्वारा च यत्सहस्रं संपन्नं तत्सर्वम् । नहि सहस्रव्यतिरेकेण किंचिज्जगदस्ति, अशेषसंख्यायाः सहस्रेऽन्तर्भावात् । संख्येयस्य च वस्तुजातस्य संख्यायामन्तर्भावात् । कथमशेषसंख्यायाः सहस्रेऽन्तर्भाव इति चेदुच्यते—तानि संख्यापर्वाणि दश दशेत्येव व्यवह्रियन्तेऽतः संख्याजातं सर्वं सहस्रेऽस्ति । दशशब्देन यावत्युच्यत एतावत्येव लोके विद्यमाना सर्वा संख्या न त्वितोऽधिका काचिदस्ति । तथा हि—एकं द्वे त्रीणीत्येवं गणनायां दशपर्यन्ता नूतनाः संख्यास्तत ऊर्ध्वं तस्या एव संख्याया आवृत्तिर्गण्यते । एकादश


^१ घ. ङ. ‘भागैषु तत्त’।
^२ क. ‘र्थी च य’।
^३ क. ख. ‘वं य’।
^४ क. सेयं।
^५ क. ख. घ. ‘न्नेति । द’।