भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 144, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 144

अध्या० ३ ख० ९(१७)] ऐतरेयारण्यकम् । १३९

परस्परं विचार्य निश्चिन्वन्ति । प्रकृताद्बृहतीसहस्रादन्यच्छन्दोन्तरयुक्तं सहस्रं किं तत्समीचीनमित्येवमेकस्य प्रश्नः । अत्रेतरस्योत्तरार्थं सच्छन्द आवर्तनीयः । प्रश्नोत्तराभ्यां मतान्तरस्य सम्यक्त्वनिश्चयाद्बृहतीसहस्रादन्यच्छन्दोन्तरयुक्तं सहस्रं ब्रूयामेति परस्परमुक्तवन्तः ।

अन्यत्र पक्षेऽप्यवान्तरमतभेदान्दर्शयति—

त्रिष्टुप्त्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्त्सहस्रमेके, इति ।

तत्रानुष्टुब्वादिनः स्वमतप्रशंसार्थं मन्त्रमुदाहरति—

तदुक्तमृषिणा, इति ।

स च मन्त्रः संहितायामेवमाम्नातः—

“बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् ।
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा ” इति ॥
[ ऋ० सं० म० १० सू० १२४, ऋ० ९ ]

योऽयमिन्द्रोऽस्ति तमिन्द्रमभिज्ञाः पुरुषा हंसमाहुः । हन्ति वर्षणाय मेघं भिनत्तीति हंसः । कीदृशमिन्द्रं दिव्यानां द्युलोकवर्तिमेघस्थितानामपां सख्ये चरन्तम् । आपो हि स्वप्रवर्तकत्वेनेन्द्रं सखायं मन्यन्ते । कीदृशीनामपां बीभत्सूनाम् । संबन्धमिच्छवो बीभत्सवः । मेघगता ह्यापः स्थावरजङ्गमप्राणिनामुपकारं कर्तुं तैः प्राणिभिः सह भूमौ संबन्धमिच्छन्ति । अतस्तादृशीनामपां भूमौ प्रेरणायेन्द्रस्ताभिरद्भिः सह युज्यते । तादृशं सयुजमाहुरित्यन्वयः । अनुष्टुप्शब्देन मेघगर्जनरूपा वागुपलक्ष्यते “ वाग्वा अनुष्टुप् ” [ नृ० पू० १ । १ ] इति श्रुतेः । तादृशीमनुष्टुप्शब्दोपलक्षितां गर्जनरूपां वाचमनुसृत्य चर्चूर्यमाणं पुनः पुनश्चरन्तमिन्द्रं परमैश्वर्ययुक्तं प्राणदेवं कवयो मेधाविन उपासका मनीषा मननेन विवेकज्ञानेन निचिक्युर्नितरामुपासितवन्तः । ध्यातवन्त इत्यर्थः ।

अस्य मन्त्रस्योत्तरार्धं प्रकृतस्यानुष्टुप्पक्षस्योपयुक्तं व्याचष्टे—

अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति
वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत्तदुक्तं भवति, इति ।

अनुष्टुप्शब्दोपलक्षितायां वाच्येव तदोपासनकाले प्राणमिन्द्रसंबन्धिनं न्यचायन्नितरां ध्यातवन्तः । इत्येतदर्थजातं तत्तेनोत्तरार्धेनोक्तं भवति ।

अस्मिन्पक्षे पूर्ववादिनोऽभिप्रेतं गुणं दर्शयति—

स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः, इति ।


१ ग. 'र्षणमयं मे' । २ ग. 'नां बन्धनं दृक्संब' ।