भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 145, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 145

१४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

सोऽनुष्टुप्सहस्रेण शंसिता होता यशोयुक्तः पुण्यकीर्तियुक्तश्च भवितोरीश्वरो भवितुं प्रभवति । यशो धनादिनिमित्तं लौकिकम् । कल्याणकीर्तियागादिनिमित्ता वैदिकी । त्रिष्टुब्जगत्यपक्षयोरप्ययं गुणो द्रष्टव्यः ।

इदानीं सिद्धान्ती तस्मिन्ननुष्टुप्पक्षे दोषं दर्शयति—

ईश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह
स्माऽऽहाकृत्स्नो ह्येष आत्मा यद्वागभि हि
प्राणे न मनसेऽस्यमानो वाचा नानुभवति, इति ।

तुशब्देनानुष्टुप्पक्षो निराक्रियते । अनुष्टुप्सहस्रेण शंसन्होता कृतादायुषः पुरा प्रैतोरीश्वरो भवति । मर्तुं प्रभुर्भवति । अपमृत्युना म्रियत इत्यर्थः । इत्येवमभिज्ञः पुरुष आह स्म । युक्तं चैतदभिज्ञस्य वचनम् । अनुष्टुब्रूपस्याऽऽत्मनोऽकृत्स्नत्वात् । कथमकृत्स्नत्वमिति चेत्तदुच्यते—यद्यदा वागभि हि वाग्रूपत्वेन स्तुतामनुष्टुभमेवाभिलक्ष्य शस्त्रे प्रवर्तते न तु प्राणत्वेन स्तुते बृहतीसहस्रे प्रवर्तते । “वाग्वा अनुष्टुप्पाणो बृहती” इत्येवं हि तत्तद्रूपेण स्तुतिः। तदानीं प्राणरूपां बृहतीमुपेक्ष्य वाग्रूपायामनुष्टुभ्येव मनसेऽस्यमानः स्वचित्तेनास्यमानः प्रेर्यमाणो होता स्वकीयया वाचा तच्छस्त्रं नानुभवति । न हि प्राणशक्तिसहायमन्तरेण केवलं मानसमात्रेण होता वाचा शस्त्रं वक्तुं क्षमते, सर्वस्येन्द्रियव्यापारस्य प्राणाधीनत्वात् ।

एवमकृत्स्नत्वदोषेणेतरपक्षं निन्दित्वा स्वपक्षं समर्थयते—

बृहतीमभि संपादयेदेष वै कृत्स्न आत्मा यद्बृहती, इति ।

अक्षरगणनया बृहतीं संपाद्य यदा ध्यायेत्तदानीं बृहतीति यदस्ति प्राणरूप एष एव प्राणः कृत्स्नः संपूर्ण आत्मा । “प्राणो बृहती ” इत्युक्तत्वाद्वृहत्याः प्राणरूपत्वम् । प्राणस्या(श्चा)भिवदनादिसर्वेन्द्रियव्यापारनिष्पादकत्वात्संपूर्ण आत्मा ।

लौकिकजीवात्मदृष्टान्तेनै बृहतीं प्रशंसति—

सोऽयमात्मा सर्वतः शरीरैः परिवृतस्तद्यथाऽयमात्मा सर्वतः
शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता, इति ।

देहमध्यवर्ती लौकिकप्रसिद्धो यो जीवात्मा सोऽयं [सर्वतः शरीरैः] परिवृतः सर्वासु दिक्षु शरीरावयवैर्वेष्टितो वर्तते । तत्तथा सति जीवात्मवदेव बृहत्यपि सहस्रत्वेन संपादिता सती सर्वतः शस्त्रमध्ये सर्वेषु स्थानेषु च्छन्दोभिरध्ययनकालीनैस्तत्तदृग्गतैर्गायत्र्यादिभिः सर्वतो वेष्टिता ।


१ क. ख. ग. धननि° । २ क. ख. °ष्टुब्युक्तस्याऽऽ° । ३ क. ख. ग. °शक्ति स° । ४ ख. ग. °वलमनसेच्छामा’ । ५ ग °न तु बृ° ।

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या) · पृष्ठ 145, कुल 304 में से · BharatKosha