भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 146, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 146

अध्या० ३ ख० ६ ( १८ )] ऐतरेयारण्यकम् । १४१

जीवात्मदृष्टान्तेन प्रशस्य मध्यशरीरदृष्टान्तेनापि प्रशंसति—

मध्यं ह्येषामङ्गानामात्मा मध्यं छन्दसां बृहती , इति ।

जीवात्मनोऽवस्थानप्रदेशत्वाद्वृदयरूपो मध्यदेहभागो वाऽऽत्मशब्देन विवक्षितः । स चाङ्गानामितरेषां हस्तपादादीनां मध्यं भवति । तथा छन्दसां मध्ये बृहती मध्यं न्यूनानां गायत्र्यादीनामधिकानां त्रिष्टुबादीनां च बृहत्या अभितो विद्यमानत्वात् ।

अनुष्टुप्पक्षोक्तदोषं स्वमते तत्परिहारं चानूद्य स्वमतमुपसंहरति—

स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽह कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद्बृहतीमेवाभि संपादयेत्, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ ( १७ )

यथा बृहतीसहस्रं संपाद्य ध्यानमुक्तं तथैवानुष्टुप्संपादनेनापि ध्यानमुच्यते ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ ( १७ )


अथ षष्ठः खण्डः । ( अष्टादशः )

यद्वाऽनुष्टुवन्तर्भावसंपादनेन बृहती प्रशस्यते—

तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहती- सहस्रस्य संपन्नस्यैकादशानुष्टुभां शतानि भवन्ति पञ्चविंशतिश्चानुष्टुभ आप्तं वै भूयसा कनीयः, इति ।

षट्त्रिंशदक्षरायामेकैकस्यां बृहत्यां द्वात्रिंशदक्षराया अनुष्टुभ ऊर्ध्वमक्षराणि चत्वा- र्यतिरिच्यन्ते । तेषां चातिरिक्तानामक्षराणां कृत्स्नेऽपि शस्त्रे सहस्रचतुष्टयं भवति । तत्रानुष्टुप्त्सम्पादने सति पञ्चविंशत्युत्तरशतसंख्याका अनुष्टुभो भवन्ति । लोकेऽपि भूयसाऽधिकेन संख्याविशेषेण न्यूनं संख्यास्वरूपमाप्तं वै स्वीकृतमेव व्याप्तमेव । तद्यथा शते पञ्चाशत्संख्याऽन्तर्भवति । सहस्रादौ शतादिसंख्याऽन्तर्भवति । तस्मात्ष- ट्त्रिंशदक्षरायां बृहत्यां द्वात्रिंशदक्षराया अनुष्टुभोऽन्तर्भावो युक्त इत्यर्थः ।

बृहत्यामनुष्टुभ्वन्तर्भावे कंचिन्मन्त्रमुदाहरति—

तदुक्तमृषिणा, इति ।


१ ग. °भागोऽन्त्राऽऽत्म° । २ ख. ग. घ. ङ. °नामेतेषां ।