ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 147, कुल 304 में से
संदर्भ में पढ़ें१४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
स च मन्त्रः संहितायामेवमाम्नातः— "वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् । इन्द्रात्परि तन्वं ममे " इति । [ ऋ० सं० म० ८ सू० ७६ ऋ० १२ ]
अत्र मन्त्रद्रष्टा कश्चिदृषिः स्वयं मन्त्ररूपः सन्नेवं ब्रूते । अहं मन्त्रात्मा वाचमनुष्टुभं ब्रूयाम् । इन्द्रात्परमैश्वर्ययुक्ताद्बृहतीरूपात्प्राणात्तन्वं परिममे, तस्य चेन्द्रस्य तनुं शरीरं परितो निर्मितवानस्मि । बृहती तावद्यथोक्तध्यानानुसारेणेन्द्रशब्दाभिधेयस्य प्राणस्य शरीरभूता, तस्यां बृहत्यामन्नुष्टुभमन्तर्भाव्येन्द्रनिमित्तं तस्या अप्यनुष्टुभ इन्द्रशरीरत्वं संपादितवानस्मीत्यर्थः । कीदृशीं वाचमष्टापदीं चतुरक्षरैरष्टाभिः पादैरुपेतम् । तथा नवस्रक्तिमष्टाभ्यः पादेभ्य ऊर्ध्वं बृहतीत्वसंपत्तये पुनरप्येकेन चतुरक्षरेण पादेन योगे सति नवसंख्याकस्रक्तियुक्ता भवति । स्रक्तयः कोणास्तद्युक्ताम् । तथर्तस्पृशमृतं सत्यं प्राणं बृहत्यात्मकं स्पृशतीत्यृतस्पृक्, तादृशीम् । बृहत्यामन्तर्भावात्तद्रूपप्राणेस्पर्श उपपद्यते ।
एतस्य मन्त्रस्य प्रथमपादं व्याचष्टे— वाचमष्टापदीमहमित्यष्टौ हि चतुरक्षराणि भवन्ति , इति । द्वात्रिंशदक्षरायामनुष्टुभि समभागैरष्टभिर्विभज्यमानायां चतुरक्षरपादा अष्टौ संपद्यन्ते ।
द्वितीयपादपूर्वभागं व्याचष्टे— नवस्रक्तिमिति बृहती संपद्यमाना नवस्रक्ति , इति । पूर्वोक्ताऽष्टापदी या वाग्रूपाऽनुष्टुप्तैवान्येन चतुरक्षरपादेन संयोगे सति षट्त्रिंशदक्षरा बृहती संपद्यमाना सती नवस्रक्तिभिश्चतुरक्षरपादरूपैः कोणैरुपता भवति । नवस्रक्तीति विसर्गलोपश्छान्दसः ।
उत्तरभागं व्याचष्टे— ऋतस्पृशमिति सत्यं वै वाग्वाचा स्पृष्टा , इति । येयमनुष्टुब्रूपा वागस्ति सेयमृचा बृहत्या स्पृष्टा संयुक्ता सती सत्यं कदाचिदपि बाधारहितं प्राणदेवं बृहतीरूपत्वेन ध्यातव्यं स्पृशतीति शेषः ।
वाचमष्टापदीम्०—ऋ० सं० म० ८ सू० ७६ ऋ० १२ । नवस्रक्तिम्०—ऋ० सं० म० ८ सू० ७६ ऋ० १२ ।
१ क. ॰णरूपस्य स्पृ । २ घ. ङ. प्राणरूपं ।