ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 156, कुल 304 में से
संदर्भ में पढ़ेंअध्या० १ख० ८(२०)] ऐतरेयारण्यकम् । १६१
“ अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ” [ बृह० २ । ३ । ६ ] इति । परब्रह्मणः प्राणदेवतामनु शरीरेऽवस्थानमाथर्वणिकैः पठ्यते— “स ईक्षांचक्रे कस्मिन्नहमूत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति- ष्ठास्यामीति स प्राणमसृजत” [ प्रश्नो० ६ । ३ ] इति । अतः प्राणदेवतामनु *रूपं ब्रह्म यत्र शरीरे युज्यते तत्रोपासकशरीरे सर्वे वागाद्यभिमानिनोऽग्न्यादिदेवा एकं भवन्ति, एकत्वं प्रतिपद्यन्ते । उपासको हि स्वशरीरे वर्तमानसर्वदेवतात्मकप्राणरूपोऽ- हमस्मीत्येवं ध्यायति ।
द्वितीयं मन्त्रमाह — यदक्षरादक्षरमेति युक्तं युजो युक्ता अभि यत्संवहन्ति । सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति, इति । पञ्चम्यन्तेनाक्षरशब्देन कदाचिदपि विनाशरहितो द्वितीयसत्यशब्दवाच्यः परमा- त्मोच्यते । प्रथमान्तेनाक्षरशब्देन व्यवहारकाले बाधरहितः प्रथमसत्यशब्दवाच्यः प्राणोऽभिधीयते । सोऽयं परमात्मन उत्पन्नः प्राण इन्द्रियैर्युक्तमुपासकसंबन्धि यच्छ- रीरमेति प्राप्नोति । युजो युक्ता इत्यादि पूर्ववत् । उपासकशरीरे सर्वदेवतासमष्टि- रूपः परमात्मोपाधिरूप उपास्यः प्राणो वर्तत इत्येतस्यार्थस्य दाढर्याय पूर्वोक्तस्यैव पुनरप्युक्तिः ।
तृतीयं मन्त्रमाह— यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु । तद्वियूया कवयो अन्वविन्दन्नामायत्ता समतृप्यञ्छुतेऽधि, इति। याचकाय सर्ववस्त्वनुज्ञाप्रदानवाचकं वाचः संबन्धि यदेतदोमित्यक्षरं दारिद्र्य- कारणमस्ति, यदपि दातव्यवस्तुप्रतिषेधवाचकं नेत्येतदक्षरमपकीर्तिकारणमस्ति, यद्- प्यन्यदस्या वाचः संबन्धि क्रूरं खट्फडादिरूपमस्ति । तथा चान्यत्र श्रूयते— “खट्फद् जहि । छिन्धि भिन्धी हन्धी कट् । इति वाचः क्रूराणि” । [ तै० आ० प्र० ४ अ० २७ ] इति। यदु च यदप्यन्यदुल्बणिष्णु अत्युल्बणं वाचः स्वरूपमाक्रोशा- दिकं तत्सर्वं कवयो मेधाविन उपासका वियूय परित्यज्य प्राणतत्त्वमन्वविन्द- न्ध्वात्वा लब्धवन्तः । ते च कवयो नामायत्ताः प्राणदेवतान्नैम्नोऽकारस्याधीनाः सन्तोऽकारो वै सर्वा वागित्याद्युक्तप्रकारेण प्राणरूपमकारमेव ध्यायन्तः श्रुते यथोक्त- श्रुतिप्रोक्ते प्राणतत्त्वेऽधिसमतृप्यन् । आधिक्यं यथा भवति तथा तृप्तिं प्राप्ताः ।
* “ ब्रह्मरूपम् ” इति पठितुं योग्यम् ।
१ घ. ङ. ध्यायेत् । २ घ. ङ. ॰तव्ये वं॰ । ३ ख. ग. ॰नाम्नौका॰ । घ. ङ. ॰नाम्नोका॰ ।
४ क. घ. ङ. श्रूयते ।