ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 157, कुल 304 में से
संदर्भ में पढ़ें१६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
चतुर्थमन्त्रमाह—
यस्मिन्नामा समतृप्यञ्छ्छृतेऽधि तत्र देवाः सर्वयुजो भवन्ति ।
तेन पाप्मानमपहत्य ब्रह्मणा स्वर्गं लोकमप्येति विद्वान्, इति ।
श्रुते$^२$ श्रुतिप्रोक्ते यस्मिन्प्राणतत्त्वे नामा पूर्वोक्तस्य नाम्नोऽकारैरूपस्याधीनाः$^३$ कवयोऽधिसमतृप्यन्, तत्र तस्मिन्प्राणतत्त्वे देवा अग्न्यादयः सर्वयुजः सर्वेणापि प्रकारेण युक्ता भवन्ति । सर्वेऽपि देवा [अ]विशेषेण प्राणैस्वरूपा$^४$ इत्येवमुपासकेन चिन्त्यमानत्वात् । तेन प्राणोपाधिकेन ब्रह्मणा पाप्मानं हिरण्यगर्भप्राप्तिप्रतिबन्धकं सर्वं$^५$ कर्मजातमपहत्य विनाशय विद्वानुपासकः स्वर्गं लोकं हिरण्यगर्भस्वरूपभूतमप्येति प्राप्नोति ।
पञ्चमं मन्त्रमाह—
नैनं वाचा स्त्रियं ब्रुवन्नैनमस्त्रीपुमान्ब्रुवन् ।
पुमांसं न ब्रुवन्नेनं वदन्वदति कश्चन, इति ।
एवं प्राणदेवं वदन्कश्चन वदिष्यामीत्येवमुद्युक्तः कोऽपि पुरुषो वाचा स्वकीयजिह्वागतेन शब्देन स्त्रियं ब्रुवन्स्त्रीशरीररूपोऽयमिति ब्रुवन्नप्येनं प्राणदेवं न वदति । तथैवास्त्रीपुमान्स्त्रीपुरुषव्यतिरिक्तो नपुंसकोऽयमित्येवं ब्रुवन्नप्येनं न वदति । तथा पुमांसं ब्रुवन्पुमानयमित्येवं ब्रुवन्नप्येनं प्राणं न वदति । अयमर्थः । लोके पुमान्स्त्री नपुंसकश्चेत्येवं$^६$ $^७$तिस्र एव स्थूलशरीरव्यक्तयस्तत्र तच्छरीरस्वीकारात्प्राणदेवस्तेन तेन पुमानित्यादिशब्देनोपचर्यते । न तु वस्तुतः प्राणदेवस्य पुंदेहादिकमस्ति ।
तथा च श्वेताश्वतरा आमनन्ति—
“नैव स्त्री न पुमानेष नैव चायं नपुंसकः ।
यद्यच्छरीरमादत्ते तेन तेन स चोद्यते$^८$”
[ श्वेता० ५ । १० ] इति ।
एवं सति प्राणदेवं तद्वाचकेन शब्देन वदिष्यामीत्येवमुद्युक्तः पुरुषो यदि पुमान्स्त्री नपुंसकमित्येतेषामन्यतमेन शब्देन ब्रूयात्तदानीमयं प्राणदेवं न वदत्येव । तेषां त्रयाणां स्थूलदेहवाचित्वेन$^९$ प्राणवाचित्वाभावात् । किं बहुना प्राणदेवतासाक्षात्कारयुक्तः पुरुषः शिष्यान्प्रति प्राणदेवस्य स्थूलदेहरूपत्वं यथा न प्रतीयते तथैव ब्रूयादिति ।
यदि स्त्री नपुंसकं पुमानित्येतैः$^{१०}$ शब्दैः प्राणो नाभिधीयते केन तर्ह्यभिधीयेतेत्याशङ्क्य श्लोकरूपत्वं परित्यज्य ब्राह्मणरूपेण ग्रन्थेनाऽऽह—
अः इति ब्रह्म तत्राऽऽगतमहमिति, इति ।
१ क. ख. ग. 'धर्मा' । २ ख. श्रुते । ३ ग. घ. ङ. 'रस्या' । ४ ग. 'णरू' । ५ ग. घ. ङ. सर्वकं । ६ ग. 'के स्त्री पुमान्नपुंसकं चेत्ये' । ७ ख. 'सकं चेत्ये' । ८ ग. घ. ङ. स युज्यते । ९ घ. ङ. 'वाचकत्वे' । १० घ. ङ. 'सकः पुं' ।