ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 16, कुल 304 में से
संदर्भ में पढ़ेंअध्या० १ ख० २] ऐतरेयारण्यकम् । ११
च्छन्दो यैतस्याहः संपत्तामथो अनुष्टुभ- मनुष्टुबायतनानि ह्याज्यानि, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
या ऋचः सूक्ते प्रोक्ताः “अग्निं नरः” इत्यादिकास्ताः सर्वा ऋचो मिलित्वा बृहत्याख्यच्छन्दोऽभिसंपद्यते(न्ते ?)। तथा विराडाख्यं छन्दोऽभिसंपद्यते(न्ते ?)। एवं सत्येतस्य महाव्रतस्याह्नोऽपेक्षिता या संपत्तिः प्राप्ता भवन्ति। तत्राऽऽदावष्टादशानामृचां स्वत एव विराडभिसंपत्तिः सिद्धा। यास्तूत्तराः सप्त त्रिष्टुभस्तासु बृहतीच्छन्दः संपादनीयम्। अन्तिमाया ऋचस्त्रिरावृत्तौ सत्यां नव त्रिष्टुभः संपद्यन्ते। तासु प्रत्येकमष्टाक्षरेष्वतीतेष्ववशिष्टा नव बृहत्यो भवन्ति। अपनीत(ता)श्च नवसंख्याका अष्टाक्षरपादा मिलित्वा द्वासप्ततिरक्षराणि संपद्यन्ते। तत्षट्त्रिंशदक्षरोपेते द्वे बृहत्यौ निष्पद्येते²। तदेवं बृहतीच्छन्दःसंपत्तिः। अपि चैवमाद्यायामृच्यनुष्टुप्त्त्वस्य संपादयितुं शक्यत्वात्ताः सूक्तगता ऋचोऽनुष्टुभमभिसंपद्यन्ते। यद्यप्याद्यायास्त्रयस्त्रिंशदक्षरत्वादेकमक्षरमनुष्टुभोऽधिकं तथाऽपि नैतावताऽनुष्टुप्त्त्वं हीयते, “न वा एकेनाक्षरेण च्छन्दांसि वियन्ति न द्वाभ्याम्” इति श्रुतेः। यथैवास्यामृच्यक्षरत्रयाधिकत्वेऽपि विराट्त्वमनुक्रमणिकाकारैरुक्तमेवमेकाक्षराधिक्येऽनुष्टुप्त्त्वं किं न स्यात्। न चैतावता प्रयासेनानुष्टुप्संपादने प्रयोजनाभावः। यस्मादाज्यशस्त्रान्यनुष्टुबाश्रितानि “प्र वो देवायाग्नये” [ऋ० सं० म० ३ सू० १३ ऋ० १] इत्यादौ तथा दृष्टत्वात्तस्मादनुष्टुप्संपत्त्या प्रशस्तमिदं सूक्तमित्यभिप्रायः। नन्वेतत्सूक्तमन्नाद्यकामस्य विधीयत इति पुरुषार्थमिदं तथा क्रत्वर्थ[त्व]मप्यस्य चोदकेन प्राप्तम्। तथा हि—आज्यप्रउगे विश्वजिति पञ्चमारण्यके वक्ष्य(ष्ये)ते। विश्वजिन्नाम एकाहाच्छस्त्रद्वयमतिदेष्टव्यमिति तस्य वाक्यस्यार्थः। विश्वजितोऽग्निं नर इति सूत्रकारेणाभिधानाद्विश्वजिद्विकृतिरूपे महाव्रतेऽपि तदेवातिदिश्यते। तस्मादेत(क)स्यैवाग्निं नरः [ऋ० सं० म० ७ सू० १ ऋ० १] इति सूक्तस्य क्रत्वर्थ(र्थत्वं) पुरुषार्थत्वं चेत्युभयविधत्वमनुपपन्नम्। नायं दोषः, दधिन्यायेनोपपत्तेः।
स च न्यायश्चतुर्थाध्यायस्य तृतीयपादे चिन्तितः—
दध्ना त्विन्द्रियकामस्य नित्योऽन्य उत तद्दधि। अन्यः स्यात्पूर्ववन्मैवं संयोगस्य पृथक्त्वतः ॥
अग्निहोत्रे श्रूयते—“दध्रेन्द्रियकामस्य जुहुयात्” इति। तत्र दध्नः काम्यत्वान्नित्येऽग्निहोत्रे पूर्ववन्न्यायेन न प्रयोक्तव्यं किंत्वन्यदेव किंचिद्द्रव्यमिति चेन्मैवम्।
१ क. भवति। २ ख. ग. भवन्ति।