भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 15, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 15

१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

नामात्मा" [ ऐ० आ० २ अ० ३ ख० ९ ] इति वक्ष्यमाणत्वात् । तेनाऽऽत्मना सहितैरवयवैः सर्वैरयं पुरुषः पञ्चविंशतिसंख्योपेतः । अतस्तादृशं पुरुषमृगतया पञ्चविं- शतिसंख्यया संस्करोति ।

प्रकारान्तरेण तां संख्यां प्रशंसति—

अथो पञ्चविंशं वा एतदहः पञ्चविंश एत- स्याह्नः स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्द्वे एव पञ्चविंशतिर्भवन्ति, इति ।

अथो अपि चेत्यर्थः । यन्महाव्रताख्यमहस्तदेतत्पञ्चविंशतिसंख्योपेतमेव । तत्कथ- मिति तदुच्यते—एतस्याह्नो यः स्तोमः सामगैः स्तोत्रकाले तृचस्याऽऽवृत्त्या संपद्यते सोऽयं त्रिवृत्पञ्चदशादिरूपो न भवति किंतु पञ्चविंशस्तस्मात्कारणात्पञ्चविंशतिसंख्यया समेन सूक्तेन पञ्चविंशस्तोमयुक्तं समं तदहः प्राप्नोतीति तस्मादेतदहः सूक्तं चेत्युभयं समं तस्मादेते द्वे अहःसूक्ते पञ्चविंशतिसंख्याप्रयुक्ते एव भवतः । अन्यथा साम्यासं- भवात् । भवन्तीति बहुवचनं तु सूक्तगतानामृचां स्तोत्रगतानां चापेक्षया द्रष्टव्यम् ।

तस्मिन्सूक्ते प्रथमोत्तमयोर्ऋचोरावृत्तिविधिमभिप्रेत्य तदावृत्तिसहितां संख्यां प्रशंसति—

तास्त्रिः प्रथमया त्रिरुत्तमयैकोनत्रिंशन्न्यूनाक्षरा विराण्न्यूने वै रेतः सिच्यते न्यूने प्राणा न्यूनेऽ- न्नाद्यं प्रतिष्ठितमेतेषां कामानाणावरुद्ध्यै, इति ।

ताः सूक्तगताः पञ्चविंशतिसंख्याका ऋचस्त्रिरावृत्तया प्रथमया त्रिरावृत्तया चोत्त- मया सहिताः सत्यो मिलिता एकोनत्रिंशत्संख्याकाः संपद्यन्ते । एकयर्चा न संपूर्णा त्रिंशदित्येकयानत्रिंश[त् । " त्रिंश]दक्षरा विराट् " इति श्रुतौविराट्छन्दसस्त्रिंश- त्संख्योपेतत्वादत्र त्रिंशत्संख्यायामेकया न्यूनत्वादियमृक्संख्या न्यूनाक्षरा विराट्संप- द्यते । लोकेऽपि न्यूने वै स्वल्प एव गर्भाशये प्रजोत्पादनार्थं रेतः सिच्यते । तथा स्वल्पे हृदयपुण्डरीके प्राणाः प्रति[वि]ष्ठन्ति, स्वल्पे चोदरेऽन्नाद्यं प्रतिष्ठितं, तस्मा- दियं न्यूना विराडेतेषां प्रजोत्पत्तिप्राणान्नप्रतिष्ठारूपाणां कामानां प्राप्त्यै संपद्यते ।

यथोक्तार्थवेदनं प्रशंसति—

एतान्कामानवरुन्धे य एवं वेद, इति ।

यः पुमानेवमृग्गतामेकोनत्रिंशत्संख्यां वेद स पुमानुक्तान्कामानाप्नोति । वेदनमा- त्रेण फलप्राप्तिर्यजुर्वेदार्थप्रकाश उपपादिता ।

प्रकारान्तरेण सूक्तगता ऋचः प्रशंसति—

ता अभिसंपद्यन्ते बृहतीं च विराजं च