भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 160, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 160

अध्या० १ख०८(२०)] ऐतरेयारण्यकम् । १६५

एतयोर्मन्त्रयोः प्रदर्शनार्थं प्रथमपादावुदाहरति—

आ तेन यातं मनसो जवीयसा निमि-
षश्चिज्जवीयसेति जवीयसेति, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्यायेऽ-
ष्टमः खण्डः ॥ ८ ॥ (२०)

इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके
तृतीयोऽध्यायः ॥ ३ ॥

इतिशब्दोऽयं मन्त्रद्वयप्रतीकोदाहरणार्थः । द्विरभ्यासोऽध्यायसमाप्त्यर्थः । “उक्थ-मुक्थम्” [ऐ० आ० २ अ० १ ख० २] इत्यारभ्य “जवीयसा” इत्यन्तेन ग्रन्थेन प्रतिपाद्यमेकमेव प्राणोपासनम्, मूर्तिभेदप्रतिपादकयोः पृथगुपक्रमोपसंहारयोरभावाद्यानि तत्र तत्र पृथक्फलश्रवणानि तानि सर्वाणि गुणफलानि द्रष्टव्यानि । यत्र त्वेकमेव फलं पुनः श्रूयते तत्र गुणान्तरे रुच्युत्पादनाय फलानुवादो द्रष्टव्यः । ननु च्छान्दोग्यबृहदारण्यकादिष्वपि प्राणविद्या समाम्नाता । अतस्तत्रत्या गुणा अत्रोपसंहर्तव्याः । शाखाभेदेऽपि पञ्चाग्निविद्यादौ विद्यैक्यस्य गुणोपसंहारस्य च मीमांसायां निर्णीतत्वात् । मैवम् । असाधारणगुणप्रत्यभिज्ञाराहित्येन विद्यैक्याभावे सति गुणोपसंहारासंभवात् । अत्र कर्माङ्गमुक्थं प्राणदृष्ट्योपासनीयम् । तत्र तु प्राण एवोपासनीय इति चोद्यभेदाद्विद्याभेदः । एतच्च च्छान्दोग्यबृहदारण्यकयोर्देवासुराख्यायिकायामुदाहृत्य भिन्नैवोद्गीथविद्येति निर्णीतं तद्दृष्टान्तेन विद्यानानात्वमवगम्यते । न च प्राणस्य देवस्यैकत्वेन विद्यैक्यं शङ्कनीयम् । तथा सति ब्रह्मण एकत्वेन सर्वेषां ब्रह्मोपासनानामेकत्वप्रसङ्गात् । तदेकत्वं च “नानाशब्दादिभेदात्” [ब्र० सू० अ० ३ पा० ३ सू० ५८] इत्याधिकरणे निराकृतम् । यद्यप्येतत्प्रतीकोपासनं तथाऽपि वाचनिकस्याहंग्रहस्य विद्यमानत्वादितरब्रह्मोपासनवत्साक्षात्कारपर्यन्तमुपासितव्यम् । ततो जातस्य साक्षात्कारस्य रक्षणार्थं मरणपर्यन्तमावर्तनीयम् । अन्यथा चित्तविक्षेपेण साक्षात्कारे नष्टे च सति देवो भूत्वा देवानप्येतीत्येतादृशं फलं नोपपद्यते । श्रूयते चात्र तादृशं फलम् “प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद” [ऐ० आ०


आ तेन यातं०-ऋ० सं० म० १० सू० ३९ ऋ० १२ । निमिषश्चिज्जवीयसा०-ऋ० सं० म० ८ सू० ७३ ऋ० २ ।


१ क. ‘नि तानि स’। २ घ. ङ. ‘लं श्रू’। ३ ख. ग. शाखभे’। ४ घ. ङ. विद्यैक्य’।
५ घ. ङ. विद्यैक्या’। ६ क. ख. ग. ‘ति चेदभे’। ७ क. ‘यादृष्टं’। ८ घ. ङ. ‘मन्त्र ग’।