ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 167, कुल 304 में से
संदर्भ में पढ़ें१६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । [२द्वितीयारण्यके-
सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयत्, इति ।
स परमेश्वरः पुनरप्येवं विचारितवान् । इमे खलु लोका निष्पन्नास्तेषां भोगस्था- नानामचेतनानां लोकानां रक्षणार्थं चेतनांल्लोकपालान्देवान्सर्वथा स्रक्ष्यामीति । स विचारयुक्त ईश्वरोऽद्भ्य एव जलोपलक्षितपञ्चभूतेभ्य एव पुरुषं पुरुषाकारं विराट्- पिण्डं समुद्धृत्यामूर्छयन्मूर्त्तं कठिनमकरोत् । यथा कुलालस्तडागे जलस्याधस्ता- दार्द्रां मृदानीय शोषयित्वा कठिनं पिण्डं करोति तद्वदेवायं विराट्पुरुषः समष्टिरूपो ब्रह्माण्डरूपस्य लोकस्य पालकः ।
अथ तदवान्तरलोकपालानां चेतनानामग्न्यादिदेवतानां सृष्टिं दर्शयति—
तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षीभ्यां चक्षुश्च- क्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मन- सश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥ ( २१ )
तं विराट्पुरुषदेहमभ्यतपदभितस्तत्तच्छिद्रतद्गतेन्द्रियतदभिमानिदेवतासृष्ट्यर्थं स परमेश्वरः पर्यालोचितवान् । पर्यालोचनमेव तप इति पूर्वमुक्तम् । अभितः पर्यालोचि- तस्य विराट्पिण्डस्य मुखं छिद्रं निरभिद्यत मुखच्छिद्रं विदारितमभूत् । यथा पक्षिसर्पादीनां पक्कमण्डं भिन्नं भवति तद्वत् । तस्मान्मुखच्छिद्राद्वागिन्द्रियं निष्पन्नम् । तस्माच्चेन्द्रियादग्निर्देवता निष्पन्ना । एवमुत्तरपर्यायेष्वपि छिद्रेन्द्रियदेवता व्याख्येयाः । प्राणो घ्राणेन्द्रियम् । लोमशब्देन तदाधारभूतत्वङ्निष्ठं स्पर्शनेन्द्रियमुच्यते । हृदय- मष्टदलं कमलम् । अपानोऽधःसंचारी वायुः । रेतो गुह्येन्द्रियम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥ ( २१ )
१ क. ख. ग. ॰पालकान्दे॰ । २ घ. ङ. ॰राजं विराट्॰ । ३ ग. ॰स्तटाके ज॰ । ४ ग. ॰हृदयं । ५ क. ख. ॰ग्निदेव॰ ।