भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 168, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 168

अध्या ० ४ ख ० २ (१२)] ऐतरेयारण्यकम् । १६३

अथ द्वितीयः खण्डः । ( द्वाविंशः )

इन्द्रियाणामभिमानिदेवतानां च सृष्टिरुक्ता । अथ तासां देवतानां भोगयोग्याल्प¹- शरीरसृष्टिं विवक्षुस्तदुपोद्धातत्वेन क्षुत्पिपासयोः सृष्टिं दर्शयति—

ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे
प्रापतंस्तमशनापिपासाभ्यामन्ववार्जत् , इति ।

या इन्द्रियतदभिमानिदेवतास्ता एताः सृष्टाः सत्योऽस्मिन्पूर्वोक्ते महत्यर्णवे समु- द्रवदत्यन्तविस्तृते विराड्देहे प्रापतन्प्रकर्षेण पतिता अभवन् । तं सर्वेन्द्रियतद्देवताधि- ष्ठानभूतं विराड्देहं क्षुत्पिपासाभ्यामन्ववार्जदनुगमितवान्संयोजितवानित्यर्थः ।
अथाल्पदेहसृष्टिमाह—

ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्न-
मदामेति ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति
ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति ताभ्यः पुरु-
षमानयत्ता अब्रुवन्त्सुकृतं बतेति पुरुषो वाव सुकृतम् , इति ।

ता विराड्देहे पतिता इन्द्रियाभिमानिन्यो देवताः स्रष्टारं परमेश्वरं प्रत्येवमब्रुवन् । भोः परमेश्वरायं विराड्देहोऽस्माकं भोगक्षमो न भवति । अतिप्रौढं तं विराड्देहमा- पूर्य तत्र प्रतिष्ठां प्राप्तुं वयमसमर्थाः । अन्नं चैतद्देह²पर्याप्तं संपादयितुं वयमसमर्थाः । अतो यस्मिन्नल्पशरीरे प्रतिष्ठिताः सत्यो वयं तद्देहपर्याप्तमन्नमत्तुं शक्ता भवामस्ता- दृशमायतनं³ शरीरं नोऽस्मदर्थं प्रजानीहि, अवधार्य संपाद्येत्यर्थः । ततः परमेश्वर- स्ताभ्यो देवताभ्यो भोगाय गोदेहमानयत् । ताश्च देवता⁴ अब्रुवन्नोऽस्माकमयं देहो नैवालमुपरितनानां दन्तानामभावेन दूर्वादिमूलस्योत्खातुमशक्यत्वात् । अतोऽयमपि गोदेहस्तिष्ठतु⁵, इतोऽन्यमप्युभयतोदन्तं देहं सृजेत्येवमब्रुवन् । ततः परमेश्वरस्तदर्थ- मश्वमानयत् । ताश्च देवता विवेकज्ञानाभावाद्यमश्वदेहोऽपि न पर्याप्त इत्युक्तवत्यः । ततः परमेश्वरस्तदर्थं विवेकसंपन्नं पुरुषदेहमानयत् । ताश्च देवतास्तावता परितुष्टा आश्चर्यवाचकेन च बतशब्देन स्वकीयं परितोषं सूचयन्त्यः सुष्ठु कृतं परमेश्वरेणेत्य- ब्रुवन् । यस्मान्मनुष्यदेह एव विवेकज्ञानसंपन्नः । तथा च पूर्वमुदाहृतम्— “पुरुषे त्वेवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीप्सत्येवं संपन्नः” [ऐ० आ० २ अ० ३ ख० २] इति । तस्मान्मनुष्यदेह एव सुकृतमित्यनेन शब्देन परितोषद्योतकेन वक्तुं योग्यः ।


१ क. ‘गभोग्या’। २ ग. ‘देहे प’ । ३ क. ख. घ. ङ. ‘नं नोऽ’ । ४ क. ख. ‘वमब्रु’ । ५ ग. ‘तु, अतोऽ’ ।