भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 181, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 181

१७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

अस्य मन्त्रस्य तात्पर्यं दर्शयति—

गर्भ एवैतच्छयानो वामदेव एवमुवाच स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्त्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत् , *इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २४ ) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमोऽध्यायः ॥ ५ ॥

अहमिति मन्त्रे योऽभिहितः स वामदेवो मातृगर्भ एव शयानः सन्नेतत्पूर्वोक्तमन्त्रार्थजातमेवमुवाच । स वामदेव एवं मन्त्रोक्तप्रकारेणाऽऽत्मतत्त्वं विद्वान्नारब्धकर्मणि क्षीणे सत्यस्माच्छरीरभेदाद्देहविनाशादूर्ध्वमु(र्ध्व उ)त्तरकालेऽवस्थितः सर्वस्मात्संसारबन्धादुत्क्रम्यामुष्मिन्निन्द्रियागोचरे स्वर्गे सुष्ठु तत्त्वज्ञानेनार्जिते लोके स्वप्रकाशकत्वेनावलोक्यमाने स्वरूपे सर्वान्कामांस्तैत्तिरीयेके प्रोक्तान्सार्वभौमादिहिरण्यगर्भपर्यन्तैगतानसर्वानन्दानाप्त्वा परमानन्दस्वरूपब्रह्मात्मत्वेन प्राप्यामृतो मरणरहितः समभवत् । यद्यपि गर्भे गुरुशास्त्रोपदेशो नास्ति तथाऽपि जन्मान्तरोपदेशस्य केनचित्प्रबलकर्मणा तदानीं प्रतिबद्धस्य गर्भे प्रतिबन्धक्षयमपेक्ष्य ज्ञानोत्पादकत्वं संभवति । तथा च भगवता व्यासेन सूत्रितम्—"ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्" [ ब्र० सू० अ० ३ पा० ४ सू० ५१ अधि० १६ ] इति । प्रस्तुतप्रतिबन्धाभावे सति यस्मिञ्जन्मन्युपदेशस्तस्मिन्नेव जन्मनि ज्ञानं भवति, अन्यथा जन्मान्तरे । कुतः । वामदेवे तद्दर्शनादिति सूत्रार्थः । यद्यपि मुक्तौ कामा विषयानन्दा न सन्ति तथाऽपि विषयानन्दानां ब्रह्मानन्दलेशत्वेन तस्मिन्नन्तर्भावाद्ब्रह्मानन्दप्राप्त्या सर्वकामप्राप्तिरौपचर्यते । तत्त्वज्ञानिनो वर्तमानदेहपातादूर्ध्वं देहान्तरसंबन्धस्याभावेन देहप्राणवियोगरूपस्य मरणस्याप्रसक्तत्वादमृतत्वं द्रष्टव्यम् । समभवदित्यभ्यासोऽध्यायसमाप्त्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २४ )

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यककाण्डभाष्ये द्वितीयारण्यके पञ्चमोऽध्यायः ॥ ५ ॥


* एतदग्रे "यथास्थानं तु गर्भियः" इति ग्रन्थः सकलमूलपुस्तकेषु, घ. ङ. संज्ञितभाष्यपुस्तकस्थमूले चाधिकः ।

१ घ. ङ. ॰रभेदादु । २ घ. ङ. ॰यप्रो॑ । ३ घ ङ. ॑र्यन्तानाग॑ । ४ क. ख. ॰बन्धस्य । ५ घ. ङ. ॰रुच्यते । ६ घ. ङ. ॰निनां व॑ । ७ क. ख. ग. ॰न्तरे सं॑ । ८ घ. ङ. ॰गस्य ।