ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 182, कुल 304 में से
संदर्भ में पढ़ेंअथ द्वितीयारण्यके षष्ठोऽध्यायः । तत्र प्रथमः खण्डः । ( पञ्चविंशः )
अध्यारोपप्रकरणे—“तस्य त्रय आवसथाः” [ऐ० आ० २ अ० ४ ख० ३] इतिवाक्येन पितृमातृस्वशरीररूपं संसरणार्थं स्थानत्रयं यदुक्तं तत्पुनः पञ्चमाध्याये वैराग्योत्पत्त्यर्थं “पुरुषे ह वै” [ऐ० आ० २ अ० ५ ख० १] इत्यादिना प्रपञ्चितम् । “स जातो भूतान्यभिव्यैख्यत्” [ऐ० आ० २ अ० ४ ख० ३] इत्यादिनाऽपवादप्रकरणेन यत्तत्त्वज्ञानं संगृहीतं यच्च वामदेवोदाहरणेन ज्ञानफलं संक्षिप्य दर्शितं तदुभयं विशदी कर्तुं षष्ठाध्याय आरभ्यते । तत्र “आत्मा वै” [ऐ० आ० २ अ० ४ ख० १] इदमित्याद्यध्यायेन सामान्यतस्तत्त्वमवगम्य “पुरुषे ह वै” [ऐ० आ० २ अ० ५ ख० १] इत्यध्यायोक्तजन्मक्लेशविचारेण परं वैराग्यं प्राप्तानां जिज्ञासूनां विचारं दर्शयति—
कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा, इति ।
“आत्मा वा इदमेक एवाग्र आसीत्” [ऐ० आ० ३ अ० ४ ख० १] इत्यादि श्रुतौ कश्चिन्निरुपाधिक आत्मा श्रुतः । तथा “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” [ऐ० आ० २ अ० ४ ख० ३] इति श्रुतौ कश्चित्सोपाधिक आत्मा श्रुतः । वयं तु प्रतिदिनं प्रतिक्षणमात्मेति यमुपास्महे स कः सोपाधिको निरुपाधिको वेत्यर्थः । उपासनं नाम नैरन्तर्येण तात्पर्यपुरःसरो व्यवहारः । अहं गच्छाम्यहमागच्छामि ममायं देहो ममेदं गृहमिति निरन्तरमादरेणाऽऽत्मव्यवहारो लोके दृश्यते, सोऽयमत्रोपासनत्वेनोपचर्यते । तथा स आत्मा श्रुतौ “आत्मा वै” [ऐ० आ० २ अ० ४ ख० १] इत्यादिना श्रुतः कतरः, सोपाधिकनिरुपाधिकयोर्मध्ये कतरः कोऽसावित्यर्थः ।
ननु कतरः स आत्मेत्ययं विचारोऽस्तु श्रुत्यैकगम्यस्य तस्य विचारमन्तरेणानिश्चयात्कोऽयमात्मेत्ययं तु विचारो न युक्तस्तस्याहंप्रत्ययगम्यत्वेन प्रसिद्धत्वादित्याशङ्क्य विचारहेतुमनेककोट्यात्मकं संशयं दर्शयति—
येन वा पश्यति येन वा शृणोति येन वा गन्धाना- जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति यदेतद्धृदयं मनश्चैतत्संज्ञानमा- ज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति, इति ।
१ क. ख. ग. इतिश्रु० ।
२३