ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 183, कुल 304 में से
संदर्भ में पढ़ें१७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । [२द्वितीयारण्यके-
यद्यप्यहंप्रत्ययगम्यश्चैतन्यरूप आत्मेति सामान्याकारेण प्रसिद्धिस्ति तथाऽपि तद्विशेषे संशयो विद्यते । बाह्यान्तःकरणेषु सर्वेष्वपि चैतन्यं पृथक्पृथगभिव्यज्यते यथा जलपात्रेषु प्रत्येकं सूर्यादिप्रतिबिम्बस्तद्वत् । तथा सति चक्षुरिन्द्रियाभिव्यक्तचैतन्येन देहेन्द्रियसङ्घाताभिमानी लौकिकः पुरुषो नीलपीतादिरूपं पश्यति । अतो येन चाक्षुषचैतन्येन पश्यति तच्चैतन्यं किमात्मेत्येका कोटिः । तथा येन श्रोत्राभिव्यक्तचैतन्येन शब्दं शृणोति तत्किमात्मेति द्वितीया कोटिः । एवं घ्राणवाग्जिह्वादीन्द्रियाभिव्यक्तचैतन्यविशेषाणामात्मतत्त्वरूपं संदेहकोटित्वं द्रष्टव्यम् । चैतन्यस्यैव रूपरसादिज्ञापकत्वं कठवल्लीष्वाम्नायते—
“येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान् ।
एतेनैव विजानाति” [ काठ० ४ । ३ ] इति ॥
श्रोत्रादीन्द्रियद्वारा विषयग्राहकत्वमभिप्रेत्य तलवकारैरप्याम्नायते—“श्रोत्रस्य श्रोत्रं मनसो मनो वाचो ह वाक्स उ प्राणस्य प्राणश्चक्षुषश्चक्षुः” [ केनो० २ ] इति । वाजसनेयिनोऽपि तत्तदिन्द्रियसाक्षिचैतन्येन तत्तदिन्द्रियद्वारकविषयग्रहणमभिप्रेत्य तत्तदिन्द्रियनाम्ना व्यवहारमामन्ति—“प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो येन्मनो विदुः” [ बृह० ४ । ४ । १८ ] इति । बाह्येन्द्रियाभिव्यक्तचैतन्येष्वात्मतत्त्वसंशयं दर्शयित्वान्तःकरणद्वयतद्वृत्तिविशेषाभिव्यक्तचैतन्येष्वात्मतत्त्वसंशयमभिप्रेत्य यदेतद्धृदयमित्यादिना तत्तदुपाधिस्वरूपमुपन्यस्यते—
हृदयं बुद्धिः, सा चाऽऽत्मनि कर्तृत्वादिधर्मारोपसाधनत्वादन्तःकरणमित्युच्यते । तस्य च बुद्धिविशिष्टस्य कर्तुरात्मनो रूपादिविषयसंकल्पविकल्पादिसाधनं मन इत्युच्यते । बुद्धिमन्सोर्द्वयोरन्तःकरणविशेषयोः समुच्चयार्थश्चकारः । एतदेवान्तःकरणद्वैविध्यमभिप्रेत्य तैत्तिरीयेके—“तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः” [ तैत्ति० २ । ४ । १ ] इति कोशद्वयमुपन्यस्तम् । तस्य च मनसो वृत्तिविशेषा एतत्सञ्ज्ञानमित्यादिना प्रपञ्च्यन्ते । यन्मनोऽस्त्येतदेव वृत्तिरूपेण परिणतं सत्संज्ञानमित्युच्यते । सम्यगिदं वस्त्विति ज्ञप्तिः संज्ञानम् । आज्ञानमाज्ञाप्तीरीश्वरभावः । विज्ञानमिदमस्माद्विशिष्टमित्येवमादिविवेकः । प्रज्ञानं ग्रन्थार्थादावुन्मेषः । मेधा ग्रन्थतदर्थधारणा । दृष्टिश्चक्षुर्द्वारा रूपोपलब्धिहेतुर्मनोवृत्तिः । धृतिर्धैर्यं प्राणायामप्यापदि तद्विषयगणनाराहित्यम् । मतिर्मननं राजकार्याद्यालोचनम्, मनीषा तत्र स्वातन्त्र्यम् । जूतिर्जवः प्रातत्कार्येषु मनसो व्यग्रता । यद्वा जूतिर्मनसो
१ घ. ङ. ॰थग्ग्यज्य° । २ घ. ङ. ॰षु सू° । ३ घ. ङ. ॰न्द्रियादिसं° । ४ घ. ङ. ॰ति । ये° । ५ घ. ङ. तत्तद्विशेषगं । ६ ख. ॰द्विशेषगं । ७ ग. ॰नसोऽव्य° । घ. ङ. ॰नसोऽप्येकाग्र° ।