भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 185, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 185

१८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

वैशिष्ट्यस्य परित्यागे सति कृत्स्नत्वमित्ययमर्थो बृहदारण्यक ऐवाऽऽम्नातः— “आत्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति” [बृह० १ । ४ । ७] इति । ये वागाद्युपाधिषु चैतन्यविशेषास्ते सर्वेऽपि निरुपाधिक आत्मन्येवान्तर्भवन्ति । यथा जलपात्रगताः सूर्याः सर्वेऽपि तत्कल्पनाधिष्ठानभूते मुख्ये सूर्येऽन्तर्भवन्ति तद्वत् ।

तदेवं कोऽयमात्मेत्येतस्मिंस्त्वंपदार्थविचारे निरुपाधिकं साक्षिचैतन्यं प्रज्ञानशब्दाभिधेयमात्मेति निर्णयोऽभिहितः । अथ कतरः स आत्मेत्येतस्मिंस्तत्पदार्थविचारे निर्णयं दर्शयति—

एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च
पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषी-
त्येतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेत-
राणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भि-
ज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किंचेदं प्राणि
जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रम्, इति ।

ब्रह्मादिस्थावरान्तं यज्जगदस्ति तत्सर्वं प्रज्ञानेत्रम् । निरुपाधिकत्वेन प्रकृष्टा ज्ञप्तिः प्रज्ञा । नीयते सर्वं जगदनेनेति सृष्टिस्थितिप्रलयव्यवहाराणां मूलकारणं नेत्रम् । प्रज्ञैव नेत्रं यस्य जगतस्तत्प्रज्ञानेत्रम् । शेषजगतो मूलकारणभूतं यच्चैतन्यं तदेव कतरः स आत्मेत्येतस्मिंस्तत्पदार्थविचारे मुख्यात्मत्वेन निर्णेतव्यमिति तात्पर्यार्थः । एष ब्रह्मेत्यनेन पुंलिङ्गेन ब्रह्मशब्देन “हिरण्यगर्भः समवर्तताग्रे” [ऋ० सं० म० १० सू० १२१ ऋ० १] इत्यादिशास्त्रप्रसिद्धः प्रथमशरीरी विवक्षितः । तस्य शास्त्रप्रसिद्धिं द्योतयितुमेतच्छब्दः । इन्द्रो देवराजः । प्रजापतिः पूर्वोक्तेन्द्रियतदभिमानिदेवतात्मको विराड्देहः । सर्वे देवा अग्न्यादयः । पृथिव्यादीनि पञ्च महाभूतानि प्रसिद्धानि । इमानि पञ्च महाभूतानीत्येतस्य पृथिवीत्यारभ्येत्येतानीत्यन्तं विवरणम् । इमानि चान्यानि क्षुद्रैरल्पैर्मशकपिपीलिकादिदेहैर्मिश्राणि । इवशब्दोऽनर्थकः । बीजानि कारणानि । मनुष्यादिपिपीलिकान्ताः सर्वे देहाः स्वयं पञ्चभूतकार्यभूताः सन्तः सजातीयदेहान्तरहेतुत्वेन बीजशब्दाभिधेयाः । तेषां बीजानां नानाजातीयत्वमितराणि चेतराणीत्यनेन प्रतिज्ञायते । परस्परविलक्षणबहुभेदयुक्तानीत्यर्थः । अण्डजानीत्यादि प्रतिज्ञातमेव नानात्वं प्रपञ्च्यते । पक्षिसर्पादीन्यण्डजानि । जारुजानि जरायुजानि मनुष्यगवादीनि । क्रिमिदंशादीनि स्वेदजानि । तरुगुल्मादीन्युद्भिज्जानि । यथोक्तेष्वेव जरायुजानामश्वा गावः पुरुषा हस्तिन इत्यु-


१ घ. ङ. ॰क्ष्यपं । २ क ग. एवमान्ना॰ । ३ क. ह्येके सं। ग. ह्येतत्सर्व । ४ घ. ङ. ॰नि। ज॰।