ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 186, कुल 304 में से
संदर्भ में पढ़ेंअध्या० ६ ख० १(२६)] ऐतरेयारण्यकम् । १८१
दाहृत्य प्रदर्शनम् । उक्तानामनुक्तानां च संग्रहोपसंग्रहार्थं यत्किंचेदं प्राणीत्यादि- वाक्यम् । यदेतज्जगदुत्पत्तिस्थितिलयकारणत्वं चैतन्यस्य प्रज्ञानेत्रपदेन संगृह्योक्तं तदेव विवृणोति— प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा, इति । प्रज्ञाने निरुपाधिकचैतन्ये पूर्वोक्तं सर्वं जगत्प्रतिष्ठितं रज्ज्वां सर्पवदारोपितम् । अनेनोत्पत्तिहेतुत्वमुक्तम् । लोकः सर्व प्राणिसमूहः प्रज्ञानेत्रः । प्रज्ञा चैतन्यमेव नेत्रं व्यवहारकारणं यस्यासौ प्रज्ञानेत्रः । अनेन स्थितिहेतुत्वमुक्तम् । प्रज्ञा चैतन्यं प्रतिष्ठा लयस्थानम् । प्रतितिष्ठति विलीयतेऽत्रेति व्युत्पत्तेः । अनेन संहारहेतुत्वमुक्तम् । एतावता शास्त्रान्तरप्रसिद्धं जगज्जन्मस्थितिलयकारणत्वाख्यं ब्रह्मणस्तटस्थलक्षणमुक्तं भवति । एवं तु लक्षणं तैत्तिरीया विस्पष्टमामनन्ति—"यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म" [ तै० ३ । १ । १ ] इति । तदेवं विचारद्वयेन तत्त्वंपदार्थौ शोधितौ । अथ महावाक्येन तयोरैक्यं दर्शयति— प्रज्ञानं ब्रह्म, इति । "सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति" [ ऐ० आ० २ अ० ६ ख० १ ] इतिवाक्येन देहेन्द्रियादिसाक्षिरूपं यत्प्रज्ञानं त्वंपदार्थरूपं निर्णीतं तदेवैष ब्रह्मेत्यादिवाक्येन जगत्कारणतया निर्णीतं परं ब्रह्म । न चानयोरीषदपि भेदोऽस्ति । अहंप्रत्ययगम्यत्वाकारेण यदा विवक्ष्यते तदा जीव इत्युच्यते । यदा तु शास्त्रप्रति- पाद्यत्वाकारो विवक्षितस्तदानीं ब्रह्मेत्यभिधीयते । अतो व्यवहारभेदमात्रं न तु तत्त्वतो भेदोऽस्ति । न चैवं सति पुनरुक्तिप्रसङ्गः । अब्रह्मत्वपरोक्षत्वयोर्व्यावर्त्ययोर्भेदेन पदद्व- योपयोगात् । एतच्च वाक्यवृत्तौ विस्पष्टमभिहितम्— "प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः । अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदाभवेत् । अब्रह्मत्वं त्वमर्थस्य व्यावर्त्येत तदैव हि ॥
१ ग. संक्षेपेण संहारार्थे य॑ । २ घ. ङ. ॰णत्वेन चेतनस्य । ३ घ. ङ. सर्वज॑ । ४ घ. ङ. सर्पादिव॑ । ५ घ. ङ. ॰नेत्रे व्य॑ । ६ घ. ङ. ॰णत्वमु॑ । ७ क. ॰नं तत्त्वंप॑ । ८ घ. ङ. ॰षद्भेदो॑ ।