ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 201, कुल 304 में से
संदर्भ में पढ़ें१९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-
अथ पञ्चमः खण्डः ।
उक्तासु वक्ष्यमाणासु च संहितोपासनासु सर्वासु श्रोतॄबुद्धि^१समाधानार्थमुपास्यविषयं सम्यक्परिशोधयितुं प्रस्तौति—
अथ खल्वाहुर्निर्भुजवक्त्राः, इति ।
अथ कासां चित्संहितोपासनानां कथनानन्तरं निर्भुजशब्दाभिधेया संहिता वक्त्रे मुखे येषां संहितोपासकानां ते महर्षयो निर्भुजवक्त्रास्ते च विषयशोधनार्थं वक्ष्यमाणं वाक्यमाहुः ।
स खलु तदीयं वाक्यं दर्शयति—
पूर्वमक्षरं पूर्वरूपमुत्तरमुत्तररूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण सा संहितेति, इति ।
अस्याः^२ संहितोपनिषदः प्रारम्भे “पृथिवी पूर्वरूपं द्यौरुत्तररूपम्” [ ऐ० आ० ३ अ० १ ख० २ ] इत्यादौ पूर्वरूपमित्यनेन पूर्वमक्षरं विवक्षितम् । उत्तररूपमित्यनेनोत्तरमक्षरं विवक्षितम् । तयोरक्षरयोर्मध्ये योऽवकाशः स संहिताशब्देन विवक्षितः ।
एवमुपास्यनिश्चयार्थं पूर्वरूपादिशब्दान्व्याख्याय^३ प्ररोचनार्थं पूर्वमुक्तं [ ऐ० आ० ३ अ० १ ख० २ ] तदुपासनफलमनुस्मारयति^४—
स य एवमेतां संहितां वेद संधीयते प्रजया पशुभि- र्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।
तदेतत्तत्रैव व्याख्यातम् ।
योऽवकाश इति यदुक्तं तत्र कंचिद्विशेषं दर्शयति—
अथ वयं ब्रूमो निर्भुजवक्त्रा इति ह स्माऽऽह ह्रस्वो माण्डूकेयः पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तर- रूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण येन संधिं विवर्तयति येन स्वरास्वरं विजानाति येन मात्रामात्रां विभजते सा संहितेति, इति ।
ह्रस्वो वामनः स्वल्पदेहः । स च स्वाभिज्ञत्वप्रकटनार्थं वयमिति पूजारूपं बहुवचनं प्रयुङ्क्ते । स चैवमाह । पूर्वरूपोत्तररूपयोर्व्याख्यानं तत्तादृशमेव, अवकाशः संहितेति यदुक्तं तत्रास्ति कश्चिद्विशेषः । न केवलमवकाशमात्रं संहितेति किं तु येनाव-
१ ग. श्रोतॄबुद्धि° । २ क. ख. तस्याः । ३ घ. ङ. ॰ब्दानाख्याय । ४ घ. ङ. ॰नुस्मरति ।