भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 223, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 223

२१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३तृतीयारण्यके-

सर्वोऽपि जनः स्वकर्णावुभावप्यङ्गुलिभ्यां दृढमपिधाय देहमध्ये किंचिच्छब्दं शृणुयात्तस्य दृष्टान्तद्वयमुच्यते । प्रकर्षेण ज्वलतो वन्हेः प्रौढस्य शब्दो यादृशो भवति, रथस्य त्वरया गच्छत उपबिद्घोषो यादृशो भवति स एष देहमध्ये श्रूय- माणः शब्दस्तादृशः । तं यदा न शृणुयात्तदानीमरिष्टं विद्यात् । अरिष्टान्तरं दर्शयति—

अथापि यत्र नील इवाग्निर्दृश्यते यथा मयूरग्रीवा मेघे वा विद्युतं पश्येन्मेघे वा विद्युतं न पश्येन्महा- मेघे वा मरीचीरिव पश्येत तदप्येवमेव विद्यात्, इति ।

यथा मयूरस्य ग्रीवा लोकेऽतिशयेन नीलवर्णा तद्वत्प्रौढो वह्निर्ज्वलन्यदा नील इव दृश्यते, तथा मेघरहिते निर्मल आकाशे केनाप्यन्येनादृश्यमानां महतीं विद्युतं पश्येत्, मेघे वा प्रौढे सर्वैर्दृश्यमानां विद्युतं स्वयं न पश्येत्, यद्वा वर्षर्तुमध्ये भूमौ सर्वत्रा- न्धकारमापादयन्प्रौढो मेघो मध्याह्नादिकाले कदाचिद्भवति तस्मिन्मेघे भासुरा मरीची- रिव पश्यति, तान्येतानि चत्वार्यरिष्टानि । अरिष्टान्तरं दर्शयति—

अथापि यत्र भूमिं ज्वलन्तीमिव पश्येत तदप्येवमेव विद्यात्, इति ।

शुष्कतृणकाष्ठादिरहिता केवला मृत्तिकैव प्रौढज्वालायुक्ता यदा दृश्यते तदानीम- रिष्टं विद्यात् । उदाहृतान्यरिष्टान्युपसंहरति—

इति प्रत्यक्षदर्शनानि, इति ।

इत्येवं पूर्वमुक्तानि “ तौ यत्र विहीयेते चन्द्रमा इवाऽऽदित्यो दृश्यते ” इत्या- रभ्य “ भूमिं ज्वलन्तीमिव पश्येत ” इत्यन्तानि जागरणावस्थायां प्रत्यक्षेण दृश्यमा- नान्यरिष्टानि विज्ञेयानि । वक्ष्यमाणं प्रतिजानीते—

अथ स्वप्नाः, इति ।

जागरणप्रत्यक्षारिष्टकथनानन्तरं स्वप्नगता अरिष्टविशेषाः कथ्यन्त इति शेषः । दशसंख्याकानि स्वप्नारिष्टानि दर्शयति—

पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह


१ क. ॰भाभ्यामप्य् । २ ग. स य एं । ३ घ. ङ. ॰घे सूर्यमं ।