भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 239, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 239

२३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [५पञ्चमारण्यके-

तदेवमृचो नव व्याख्याताः । अथ नव पुरीषपदानि व्याख्येयानि । तत्र प्रथमं पदमाह—

एवा ह्ये३वा ह्यग्ना३इ, इति ।

“ इण् गतौ ” [ अदा० ग० प० ] इत्यस्माद्धातोराङ्पूर्वान्निष्पन्न एवशब्द आगमनवाची । हेऽग्न एवा ह्ये३वै सर्वथा समागच्छ । द्विरुक्तिः प्लुतिश्चाऽऽदरार्था । एकारस्य स्थाने प्लुतिकारो३त्तरा व्याकरणे विहिता ।

अनन्तराणि चत्वारि पदान्याह—

एवा ह्ये३वा ही३न्द्रम् । एवा ह्ये३वा हि विष्णा३उ ।
एवा ह्ये३वा हि पूष३न् । एवा ह्ये३वा हि देवा३ः, इति ।

प्रथमपदवद्व्याख्येयम् ।

षष्ठं पदमाह—

एवा हि शक्रो वशी हि शक्रो वशाँ अनु, इति ।

शक्रः शक्तिमानिन्द्र एवा हि, आगतः खलु । स च शक्रो वशी हि सर्ववस्तुवशीकारवान्खलु । तादृशो देवो वशाँ अनु स्वस्य वश्यान्यजमानानुगृह्णातु ।

सप्तमं पदमाह—

आ यो मन्याय मन्यव उपो मन्याय मन्यवे, इति ।

इन्द्रो मन्याय मन्यवे मन्तव्यमस्मद्धितं मन्तुमा यज्ञे समागच्छति स इन्द्रो मन्याय मन्तव्यमस्मद्धितं मन्यवे मन्तुमुपो अस्मत्समीप एव तिष्ठतु ।

अष्टमं पदमाह—

उपेहि विश्वध, इति ।

हे विश्वध विश्वस्य धारकेन्द्रोपेह्यस्मत्समीपे प्राप्नुहि ।

नवमं पदमाह—

विदा मघवन्विदो३म् , इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे चतुर्थारण्यके प्रथमाध्याये
प्रथमः खण्डः ॥ १ ॥

इति बह्वृचब्राह्मणारण्यककाण्डे चतुर्थारण्यके
प्रथमोऽध्यायः ॥ १ ॥

इति बह्वृचब्राह्मणारण्यककाण्डे चतुर्थमारण्यकं
समाप्तम् ॥ ४ ॥


१ क. ख. घ. ङ. ॰व हि स॰ । २ ग. ॰रो व्या॰ ।