भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 238, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 238

अध्या० १।ख० १] ऐतरेयारण्यकम्। २३३

  • सप्तमीमृचमाह— इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम्। स नः पर्षदति द्विषः स नः पर्षदति स्रिधः, इति।

धनस्य सातये लाभाय जयोपेतं पराजयरहितमिन्द्रं हवामह आह्वयामः। स चेन्द्रोऽस्माकं शत्रूनतिशयेन विनाशयतु। ये त्वन्ये स्वयं द्वेषं न कुर्वन्ति तथाऽपि स्रिधोऽस्माभिर्द्वेष्यास्तानप्यतिशयेन विनाशयतु। सर्वत्र हि वेदेषु "योऽस्मान्द्वेष्टि। यं च वयं द्विष्मः" [कौषी० २।८] इत्यादौ द्वेष्याणां द्वेष्टृणां च विनाशः प्रार्थ्यते।

अष्टमीमृचमाह— पूर्वस्य यत्ते अद्रिवः सुम्न आधेहि नो वसो। पूर्तिः शविष्ठ शस्यत ईशे हि शक्रः, इति।

हेऽद्रिवोऽद्रयः पर्वता अस्य सन्तीत्यद्रिवान्। इन्द्रो हि पर्वतान्भिनत्ति, अतः पर्वतेन्द्रयोर्भेद्यभेदकत्वलक्षणः संबन्धः। यद्वाऽदिरादरं तद्युक्त हे इन्द्र पूर्वस्यास्मदुत्पत्तेः पूर्वसिद्धस्य ते तव यद्धनमस्ति हे वसो निवासहेतो, इन्द्र तस्मिन्सुम्ने धने नोऽस्मानाधेहि स्थापय। हे शविष्ठातिशयेन बलयुक्त पूर्तिस्त्वदीयधनपूरणं शस्यते सर्वैर्यजमानैः प्रशस्यते। प्रशंसाप्रकार एव प्रशस्यते—शक्रः शक्तिमानिन्द्र ईशे हि सर्वस्यास्मद्रक्षणस्येष्टे खलु। सेयं प्रशंसा।

नवमीमृचमाह— नूनं तं नव्यं संन्यसे प्रभो जनस्य वृत्रहन्। समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः, इति।

हे वृत्रहन्वृत्रघातिञ्जनस्य प्रभो सर्वस्य जन्तोः स्वामिन्नव्यं नूतनं वलीपालितादिलक्षणेन पुराणत्वेन वर्जितमिन्द्रं तं त्वां नूनमवश्यं संन्यसे सम्यङ्नितरां प्रक्षिपामि। अस्मिन्कर्मणि हविषो भोक्तृत्वेन स्थापयामि। त्वं चाहं चेत्यावामुभावप्यन्येषु परस्परं सम्यक्प्रब्रवावहै। इतरेषु यजमानेष्वहं गत्वा प्रभूतफलप्रदोऽयमिन्द्र इत्येवं प्रब्रवीमि। इतरेषु देवेषु त्वं गत्वा सम्यगनुगृहीताऽयं यजमान इति प्रब्रूहि। यो यजमानोऽस्ति सोऽयं दक्षिणारूपेण दातव्यासु गोषु शूरो गच्छति। उदारः संप्रवर्तते। इत्येवं मदीयं गुणं त्वं प्रब्रूहि। इन्द्रोऽयं सखा सखिवदत्यन्तं स्निग्धः। सुशेवः सुष्ठु सेवितुं शक्यः। अद्वया एतत्सदृशो द्वितीयो देवो नास्तीत्येवमहं ब्रवीमि।


१ क. ख. 'द्रिविंधार'। घ. ङ. 'द्विता धर'। २ घ. ङ. 'हञ्शत्रुघा'। ३०