भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 237, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 237

२३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [४चतुर्थारण्यके-

मंहिष्ठ वज्रिन्नृञ्जस आयाहि पिव मत्स्व, इति ।
हे वज्रिवो वज्रयुक्तेन्द्र राये धनलाभाय वाजायान्नलाभाय च प्रसन्नो भवेति शेषः । हे शविष्ठातिशयेन बलवन्वज्रिन्नवज्रयुक्तेन्द्र, ऋञ्जसे वर्जयस्यनिष्ठं परिहरसीत्यर्थः । हे मंहिष्ठातिशयेन पूज्य वज्रिन्नवज्रयुक्तेन्द्र ऋञ्जसे सर्वथा त्वमनिष्ठं परिहरसि । तस्मात्कारणादायाह्यस्मिन्कर्मण्यागच्छ । आगत्य च सोमं पिब । पीत्वा च मत्स्व हृष्टो भव ।

चतुर्थीमृचमाह—
विदा रायः सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु ।
मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् , इति ॥
हे इन्द्र रायो धनस्य सुवीर्यं शोभनसामर्थ्यं विद् वेत्सि जानासि<sup></sup>, अतो धनसाराभिज्ञत्वाद्भुवो भूलोकस्य वाजानां तत्रत्यानामन्नानां च पतिः पालकस्त्वं वशाँ अनु वश्यांस्त्वदधीनान्यजमानानुगृहाण । हे मंहिष्ठातिशयेन पूज्य वज्रिन्नवज्रयुक्तेन्द्र यस्त्वं शूराणां मध्ये शविष्ठोऽतिशयेन बलवांस्तादृशस्त्वमृञ्जसेऽनिष्ठं वर्जयसि । यद्वाऽभीष्टं साधयसि । “ऋञ्जतिः प्रसाधनकर्मा” इति निरुक्तेऽभिधानात् ।

पञ्चमीमृचमाह—
यो मंहिष्ठो मघोनां चिकित्त्वो अभि नो नय ।
इन्द्रो विदे तमु स्तुषे वशी हि शक्रः , इति ।
हे चिकित्वोऽस्मत्सेवाभिज्ञेन्द्र यस्त्वं मघोनां धनवतां मध्ये मंहिष्ठोऽतिशयेन पूज्यस्तादृशस्त्वं नोऽस्मानभिनय सर्वतो धनं प्रापय । इन्द्रः परमैश्वर्ययुक्तस्त्वं विदे वेत्सि जानासि । अतस्तमु तमपि यजमानं स्तुषे स्तौषि सम्यग्विद्वदत्तवानिति प्रशंससि । त्वं तु वशी सर्ववस्तुविषयवशीकारवान् । अत एव शक्रः शक्तिमान्हि । तस्माच्चैतद्यजमानानुग्रहणं युक्तमित्यर्थः ।

षष्ठीमृचमाह—
तमूतये हवामहे जेतारमपराजितम् ।
स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् , इति ।
तमिन्द्रमूतयेऽस्मद्रक्षार्थं हवामह आह्वयामः । कीदृशं सर्वत्र युद्धेषु जेतारं क्वाप्यपराजितम् तादृश इन्द्रो नोऽस्माकं द्विषः शत्रूनतिपर्षदतिशयेन विनाशयतु । योऽयं क्रतुरस्माभिरनुष्ठीयमानो यदपि च्छन्दो गायत्र्यादि<sup></sup>कमस्माभिः प्रयुज्यमानं यदप्यृतं कर्मफलं तत्सर्वं बृहत्समृद्धमिति शेषः ।


१ क. घ. ङ. ˚सि महाध˚ । २ क. ख. ग. ˚ष्यायैक˚ ।