भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 25, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 25

२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-

च्छस्त्रोपेतम्। यद्यपि कर्मान्तरमप्युक्थवदेव तथाऽप्येतद्रूपसमृद्धं प्रशस्तैः शस्त्रैरुपेतत्वात्। तस्मादुक्थिन इति पदं युक्तम्।

प्रगाथान्तर्गतं वीरमिति पदं प्रशंसति—

प्रैतु ब्रह्मणस्पतिरच्छा वीरमिति वीर-
वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति।

प्रैत्वित्यादिः प्रगाथस्य प्रथमायाः प्रथमः पादः। अच्छा वीरमिति तृतीयः पादः। ब्रह्मणो वेदस्य पतिः पालक एतन्नामको देवो वीरं शीघ्रफलप्रदत्वेनात्यन्तशूरमेतत्कर्माच्छ प्राप्तुं प्रैतु प्रकर्षेण गच्छतु। एतत्पाठे मदा(चैत?)स्याह्नो रूपं वीरवद्वीरपदयुक्तं सद्रूपेण समृद्धं भवति।

प्रगाथान्तरे सुवीर्यमिति प्रशंसति—

उत्तिष्ठ ब्रह्मणस्पते सुवीर्यमिति वीर्य-
वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति।

उत्तिष्ठेत्यादिः प्रगाथस्य प्रथमायामृचि प्रथमः पादः। हे ब्रह्मणस्पत उत्तिष्ठोद्योगयुक्तो भव। तस्मिन्नेव प्रगाथ(थे)द्वितीयस्यामृचि तृतीयपादे सुवीर्यमिति पदं विद्यते, तच्च यजमानविशेषणं शोभनवीर्योपेतस्य फलस्य प्रतिपादनादह्नो रूपं वीर्यपदोपेतत्वाद्रूपसमृद्धम्।

प्रगाथान्तर उक्थपदं शंसति—

प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यमित्युक्थं वा
एतदहुरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति।

प्र नूनमिति प्रगाथपूर्वार्धम्। ब्रह्मणस्पतिर्देवो नूनं वेदस्वरूपं प्रकाशे वदति। कीदृशं मन्त्रमुक्थ्यं प्रशस्यम्। उत्तिष्ठत्यभिवृद्धिं गच्छति कर्मण्यनेन शस्त्रेणेत्युक्थं शस्त्रं तदर्हति यो मन्त्रः सोऽयमुक्थ्यः। उक्थं वा एतदित्यादि पूर्ववद्व्याख्येयम्।

अथ कस्यांचिद्धायायामाचि वृत्रहेति पदं प्रशंसति—

अग्निर्नेता स वृत्रहेति वार्त्रघ्नमिन्द्ररूप-
मैन्द्रमेतदहरेतस्याह्नो रूपम्, इति।

अग्निर्नेतेत्यृचः प्रक्रमः। स वृत्रहेति तृतीयपादस्य प्रक्रमः। अयमग्निर्नेता कर्मणः


प्रैतु ब्रह्मण०—ऋ० सं० म० १ सू० ४० ऋ० ३। उत्तिष्ठ ब्रह्मण०—
ऋ० सं० म० १ सू० ४० ऋ० १। प्र नूनं ब्रह्मण०—ऋ० सं० म० १ सू०
४० ऋ० ५। अग्निर्नेता स०—ऋ० सं० म० ३ सू० २० ऋ० ४।


१ क ॰दनमहो।

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या) · पृष्ठ 25, कुल 304 में से · BharatKosha